________________ 272 सिद्धान्तरनिका व्याकरणम् / 3. 98 च-जोः क-गौ घिति / पाकः / त्यागः / 99 कारकेऽपि 1 / प्रत्याहारः / उपाध्यायः / 100 स्वरादः / स्वरान्तादः स्याद् मावादौ / चयः / ‘नयः 2 / 101 द्वितोऽथुः / मावादौ / वेपथुः 3 / श्वयथुः / 102 ड्डितस्बिमक् तत्कृते / डितो धातोखिमक् स्याद धात्वर्थेन कृतेऽर्थे / कृत्रिमः 4 / पवित्रमः / 103 नङ्-की। धातोर्नङ्-की भावादौ / याच्या। यत्नः। 104 प्रच्छ-विच्छोः शो नेऽसंप्रसारणम् / प्रश्नः 5 / विश्नः / आधिः / पाथोधिः / . 1 कर्तृवर्जिते कारकेऽपि घन् / प्रत्याहियते यः स प्रत्याहारः। प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः, इति हैमकोषः / उप-समीपं गत्वाऽधीयतेऽस्मादित्युपाध्यायः पाठक इत्यर्थः / 2 एवं प्रभवः, विजयः, विषयः, स्तवः, करः, सवः इत्यादि / मदः, पणः, श्रमः इत्यादयस्तु " मदामः " सूत्रात् सिध्येयुः / 3 टुवेपृ कम्पने, टुओश्विइर् गति-वृद्धयोः, वेपनं वेपथुः, प्रयोगश्च शाकुन्तले-अद्यापि स्तनवेपथु जनयति श्वासः प्रमाणाधिकः / नन्दथुः, याचथुः / 4 करणेन निवृत्तं कृत्रिमं अस्वाभाविकमित्यर्थः। डुवप् बीन-तन्तुसन्ताने, यजादित्वात् संप्रसारणम् , उत्रिमं धान्यम् / 5 पृच्छयते तत्त्वमनेनेति प्रश्नः। एवं यज्ञः,