________________ * कृदन्तप्रकरणम् / तुम् प्रत्ययः स्यात्तदायां क्रियायां प्रयुज्यमानायाम् 1 / भोक्तुं बनति / पठितुं तिष्ठति / 93 कचिनाम्न्युपपदेऽपि / अध्येतुं वेला / भोक्तुं पर्याप्तः / श्रोतुं कुशलः / 94 काम-मनसोस्तुमो मलोपः। कर्तुकामः। पठितुमनाः। ___95 पौनःपौन्ये णम् पदं द्विश्च / पूर्वकाले धातोः पौनःपौन्ये णम् स्यात् 2 / णमन्तं च पदं द्विः / स्मारं स्मारं हसति / 96 कयमादिषु 3 स्वार्थे कृषो णम् द्वित्वाभावश्च / कथंकारम् / एवंकारम् / 97 घञ् भावे 4 / 1 तुमन्तमप्यव्ययसंज्ञकं भवति / 2 धातुमात्राट् णम् भवति, तदन्तं चाव्ययम् / प्रयोगस्तु वेदं वेदं सकलसमयं प्राप्तशान्तस्वभावः / . स्वर्गस्थोऽसौ विलसति सुखं मद्गुर्वृद्धिचन्द्रः // इति महनीयनामानो गुरुदेवश्रीविजयधर्मसूरीन्द्राः / 3 आदिशब्दन्यासाद् अन्यथाकारं इत्थंकारं च वैद्यम् / 4 भवनं भावः / करणं कारः / वदनं वादः / धातुमात्रादेष प्रत्ययः स्यात् / स च नान्यपदाधीनो भवेत्तदा पुँल्लिङ्गे एव स्यात्, उक्तं च / स्वकीयलिङ्गानुशासने श्रीहेमचन्द्राचार्यैःपुल्लिङ्गं क-ट-ग-थ-प-भ-म-य-र-ष-स-स्न्वन्तमिमनलौ किश्तिव / न-नौ व घनौ दः कि वे खोऽकर्तरि च कः स्याद् // 1 //