________________ कृदन्तप्रकरणम् / 79 धालो हिः किति ते / हितम् / 77 पचो का / पक्वः पक्ववान् / 78 शुषेः कः / शुष्कः / ". 79 दान्तादयो वा निपात्यन्ते / दान्तः दमितः / पूर्णः पूरितः / तूर्णः त्वरितः / प्यानः पीनः 1 / / 8. फुल्लादयश्च निपात्यन्ते 2 / फुल्लः / क्षीवः / 81 क्त-क्तवत्वोरिटि विलोपः। पाचितः पाचितवान् 3 / 82 स्थैर्य-गति-भक्षणार्थेभ्योऽधिकरणेऽपि क्तः / हरेरासितं यातं मुक्तं वा 4 / 83 पूर्वकाले क्त्वा / . भावः / डुदाञ् दाने 'खसे चपा झसानाम् ' दत्तः / पित्वातोस्तु दातः / स्वरान्तादुपसर्गात्तु "स्वरात्तो वा इति सूत्रेण दा इत्यस्य तकारो वा भवति, तेन प्रत्तः प्रत्तवान्, पक्षे प्रदत्तः प्रदत्तवान् / 1 एवं दस्तः दासितः, ज्ञप्तः ज्ञपितः, ' रुष्टः रुषितः, अम गत्यादौ, आन्तः अमितः, शान्तः शमितः, हृष्टः हृषितः इत्यादीनामपि ग्रहणं कर्तव्यम् / 2 'फुल्लादयश्च' इयन्मात्रमेव कख-पुस्तकयोः सूत्रमस्ति / क्षीवः मत्तः इत्यपि पुस्तकद्वये / 3 एवं भावितः भावितवान्, चोरितः चोरितवान् / 4 हरेरितीह " वर्तमानाधारार्थक्तस्य योगे षष्ठी” इति षष्ठीविभक्तिः /