________________ 68 दस्तस्य नो दश्च / दात्परस्य कितस्तस्य नत्वं स्याद् दस्य च / मिन्नम 1 69 अदो जघुः 2 / किति ते / जग्धम् / / 70 रः / रेफात् कितस्तस्य नत्वं स्यात् / कीर्णम् 3 / जीर्णम्। तस्येड् वा" 'शीडादिभ्यः सेटौ०' इति सूत्राभ्यां सेट्पक्षे मेदितं भवति / एवं निविदा-मिश्विदाप्रभृतीनामपि-विज्ञेयम् / प्रस्तुतसूत्रे 'वर्तमानेऽपि' इत्यत्रापिशब्दनिबन्धनाद् ज्ञा-पूजा-इच्छामत्यर्थानां शीलादीनाञ्च धातूनां वर्तमानकालेऽपि कर्तरि कर्मणि भावे च क्तप्रत्यय स्यात् / जानातीति ज्ञातः, बुध्यतीति बुद्धः, पूजयति महीयते वेति पूनितो महितो वा श्रीहेमचन्द्राचार्यः सिद्धराजनृपतेः / राज्ञामिष्टो मतो वा सूरिमतल्लिका श्रीविनयधर्मसूरीश्वरः / शीलयतीति शीलितः / एवं कर्म-भावप्रयोगेष्वपि वेद्यम् / अत्र षष्ठीविभक्तिस्तु “क्तस्य च वर्तमाने " इति सूत्रेण समागता मन्तव्या / 1 भिद्यते स्मेति भिन्नमिति भावे कर्मणि च, कर्तरि तु अभैत्सीदिति भिन्नवान् / 2 अद्धातोः स्थाने जघुरादेशः स्यात् , उ इत्संज्ञकः, 'तयोधः, 'झबे जबाः' इति सूत्राभ्यां जग्धं स्यात् / 3 क विक्षेपे, कीर्णम् / ज्या वयोहानौ, जीर्यतेस्मेति जीर्णम् /