________________ 162 सिद्धान्तर स्निका व्याकरणम् / स्यात् / अग्निष्टोमयानी। उष्णमोजी 1 / 48 किब्-वनिब्-डाः / धातोरतीते काले शीले चैते म्युः। अग्निचित् / यन्वा / प्रजा / अनः / परिखा / 49 शत-शानौ तिप्-तेवत् क्रियायाम्। धातोः शतृ. शानौ स्तः क्रियायां गम्यमानायाम्, तौ च तिप्-तेवत् 2 / पचन्नास्ते / 1 उष्णममुक्त, उष्णं भोक्तुं शीलं वा यस्य स उष्णभोजी। स्त्री तु उष्णभोजिनी / शीलं सदा सहभावी स्वभावः, तेन यः कदाचिदुष्णं मुझे न तत्र शीलार्यकप्रत्ययाः / 2 तिवादिषु विकरणप्रत्यय-गुणादि यद्यत् कार्यमुक्तं तत्सर्व शतृशानयोः परयोभवति / प्रयोगश्च जैनकुमारसंभवे-नदद्भिरर्हद्भवनेषु नाट्यक्षणे गभीरध्वनिमिर्मृदङ्गैः / अत्र णद अव्यक्ते शब्दे, भौवादिकत्वादप् , 'ब्रितो नुम्' 'हसेपः सेर्लोपः' 'संयोगान्तस्य लोपः' नदन् नदन्तौ / आदादिकस्य माधातोः, मान् मान्तौ मान्तः, प्रयोगस्त्वयम्-माता न माता हृदि संमदेन, इति जैनकुमारसंभवे / परस्मैपदितः शतृप्रत्ययः, आत्मनेपदितः शानप्रत्ययो भवति / वयः-शक्तिशीलार्थे तु सकलधातुभ्योऽपि शान एवेति सिद्धहेमचन्द्रमतं, निदर्शनं तु क्रमतः-चुलुकेषु चला वहमान ऐमं दलमान आत्मानमशंसमानः, इति संस्कृतव्याश्रयमहाकाव्ये / णकारविधायके उपसर्गस्थनिमित्ते सति धातोर्नस्य णः स्यात् , प्रणमन्तो जिनं देवं प्रापुर्योदपरंपराम्, इति हिमांशुविजयोऽनेकान्ती।