________________ कृदन्तप्रकरणम् / 1927.. 23 भजां विण 1 / 24 वेर्लोपः। 25 सहेः षः साढि 2 / साढिरूपे सति सहेः सत्य षः स्यात् / तुरापाट् / मारवाट / 26 अभूततद्भावे कुम्वस्तियोगे नाम्नश्विः 3 / (च्चौ दीर्घ ई चास्य) च्वौ अवर्णस्य ईः, इदुतोर्दीवः / शुक्लीकरणम् / हेतूकृतम् / . 27 च्चो सलोपः 4 / सुमनीभावः / 1 भन-सह-वहाम् / विणो वेर्लोपः,. णकारो वृद्ध्यर्थः / सुखं भजतीति सुखभाक ग, एवं दुःखभाक् , धर्मभाक् / 2 सहेस्माढि इति क-ख-पुस्तकयोः पाठः / तुरां वैरिवेगं सहते इति तुरापाट्-ड् इन्द्रः / भारं वहतीति भारवाट्-ड् ‘वावप्ताने / / शसादौ स्वरे तु 'वाहो वौ शसादौ स्वरे सूत्रेण मारोहः / मारोहा / भारौहे इत्यादि / एवं विश्ववाडादिः / 3 पूर्व न भवेत् पश्चाद्भवति सोऽभूततद्भावस्तस्मिन् / अशुक्र शुक्ल करणमिति शुक्लीकरणम् / मालीभवनम् / अग्नीस्याद् / अहेतुर्हेतुः कृतमिति हेतूकृतम् / 4 अरुष्-चक्षुष्-मनस्-चेतस्-महम्-रहसू-रजम्-सर्पिषादीनां च्वौ परे सलोपो भवेत् / यथा च द्याश्रयमहाकाव्ये-- अरूकुर्वन् रजीकुर्वन् संमुखीभवनो रणे / अस्मानप्युन्मनीकुर्वन् न्यूनीस्यादान्नकः कुतः ? // 19-26 // उच्चक्षूभवतोऽचेतीभवतो मूर्च्छया भटान् / रहीभूते रणे नाहन् यः श्लाघाऽर्हः कथं न सः? // 19-27 //