________________ 156 सिद्धान्तरनिका व्याकरणम् / 20 खिति पदस्य / खिति परेऽनव्ययस्य पूर्वपदस्य मुम् / / सर्वकषः / 21 वाचंयमादयो निपात्याः 2 / वाचंयमः / द्विपंतपः / परंतपः / उदरंभरिः / आत्ममरिः / - 22 एजां खश् / जनमेजयः 3 / पण्डितमन्यः / अरुंतुदः / 1 खिदन्ते उत्तरपदे पूर्वपदस्य मुम् . इति क-पुस्तके पाठः, मुम्स्थाने नुम् इति ख-पुस्तके पाठः / कूलं कषतीति कूलंकषा सरित् / करीषंकषः पवनः / अभ्रंकषो वातः / 2 य प्रयोगा: सूत्रैर्न सिध्यन्ति ते निपात्याः / वाचं यच्छतीति वाचंयमो मुनिः ( मौनव्रतधारी ) / परं शत्रु तापयतीति परतपः / आत्मानं विभतीति मुमनन्तरं 'नाम्नो नो.' इति नस्य लोपः, आत्मभरिः स्वार्थंकलम्पट इत्यर्थः / 3 एज़ कम्पने। जनं एजयतीति जनमेजयः / आत्मानं पण्डितं मन्यते इति विग्रहः / एभ्यः खश् स्यात्न्यन्तैजे:, मन्यतेः, मुञ्ज-कूलास्य-पुष्पतो धयेः / नाडी-मुष्टी-शुनी-पाणि-कर-स्तनात् सनासिकात् // 1 // मुज॑धयः / पुष्पंधयः / स्तनधयो बालः / " खशन्ते पूर्वपदस्यानव्ययस्य हूस्वः" धेड्-माधात्वोरक्यं तेन मुष्टी धयतीति मुष्टिंधयः मुष्टिंधमः / नासिकंधयः नासिकंधमः। नाडिधयः नाडिं'धमः / करंधयः करंधमः इत्यपि स्यात् /