________________ - कृदन्तप्रकरणम् / 19 इ-ख-खि / नाम्नि कार्ये चोपपदे धातोरि-ख-खि इत्येते स्युः 1 / शकृत्करिः / फलेग्रहिः 2 / 'त्रितः' सूत्रेण ईप् स्यात् , तेन यशस्करी विद्या इत्यादि सि यति / एवं कर्म करोतीति कर्मकरः, पार्श्वशयः, धर्मकरः, स्तम्बेरमः इत्यादिप्रयोगा अनेनैव सूत्रेण सिध्येयुः। 1 एभ्य इप्रत्ययः स्यात्शकृत्-स्तम्बात् कृमः, फले-रजो-मलाद् ग्रहः, हनः / दृति-नाथाद् , देव-वातादापः कर्तरि वाच्य इः // 1 // एभ्यः खप्रत्ययः स्यात्करीष-कूल-सर्वाभ्रात् कषः, प्रिय-वशाद वदः / ऋति-मेघ-भयात् कृनः क्षेम-भद्र-प्रियात्तु वा / / 1 / / आशिताच्च मुंवो भावे करणे च, तुराद मुजात् / विहायसः सुतोरोभ्यां हृदयाच्च जनात् प्लवात् // 2 // गच्छतेः प्रत्ययः खः स्याद्, ज्ञेयं गत्रैर्यथायथम् / एभ्यः खिः स्यातवर्या वदन्ति विद्वांसो भृनो धातोस्तु खिर्भवेत् / आत्मन्-कुक्ष्युदरेभ्यश्च सम्यम् बोध्यं मनीषिभिः // 1 // 2 फलानि गृह्णातीति फलेपहिः, एदन्तत्वं निपात्यते / एवं स्तम्बकरि-तिहरि-नाथहरि-देवापि-वातापयोऽपि. बोध्याः / इ-खि... प्रत्ययान्तानां हरिवद्रूपाणि /