________________ 154 सिद्धान्तरत्निका व्याकरणम् / 14 कार्येऽण् / कर्मण्युपपदे धातोरण स्यात् / कुम्भकारः 1 / 15 आतो डः / कर्मण्युपपदे आदन्तात् डः स्यात् गोदः / धनदः / - 16 नाम्नि च। नाम्न्युपपदे धातोर्डः स्यात् / द्विपः 2 / द्विजः / 17 उरगादयो निपांत्याः / उरगः उरङ्गः 3 / मुजगः मुनङ्गः / तुरगः तुरङ्गः / विहगः विहङ्गः। 18 अटो / नाम्नि कार्ये चोपपदे धातोरटौ स्तः / कर्णेजपः 4 / कुरुचरः / पूनाऽर्हः / यशस्करः / 1 शास्त्रं करोतीति शास्त्रकारः / सम्मतितर्क ( तर्कग्रन्यं ) करोतीति सम्मतितर्ककारः सिद्धसेनदिवाकरः / 2 द्वाभ्यां मुख-शुण्डाभ्यां पिबतीति द्विपो हस्ती / द्वाभ्यां जन्मसंस्काराभ्यां जायते इति द्विनो विप्रः / गृहेर्दारैः सह गृहे वा तिष्ठतीति गृहस्थः / नाममात्रोपपदे सति डः स्यात् / डित्त्वात् टिलोपः / 3 उरसा गच्छतीति उरगः सर्पादिः, भुजाभ्यां गच्छतीति मुनगो नकुलादिः, तुरेण रंहसा गच्छतीति तुरगः अश्वः, विहायसा व्योम्ना गच्छतीति विहगः शुकादिखेचरः / 4 कर्णेजपस्तु दुर्जनः, इति हैमः / कर्णे जपतीति सप्तम्यलुक्समासः। पूजामर्हतीति पूजा: वीतरागः / यत्र टप्रत्ययस्तत्र स्त्रियां