________________ कृदन्तप्रकरणम् / घनाघनः / पाटूपट: 1 // नन्दनः 2 वर्धनः / क्रमणः / शोभनः / , साधनः // ग्राही / उत्साही / अवाची 3 / अपराधी 4 / 9 दृशादेः शः / दृश्-पा-घ्रा-धमा धेटा शः। 10 शिति चतुर्वत् कार्यम् 5 / पश्यः / पिनः / निनः / धमः / धयः / 11 घ्रः संज्ञायां न शः 7 | व्याघ्रः / 12 ज्वलादेर्णः 8 / ज्वालः / तापः / 13 आदन्ताच्च / दायः / पायः / 1 " पाटेजिलुक् चोक् दीर्घश्च पूर्वस्य " पूर्व जिलुक् ततो द्वित्वं तत ऊगागमपूर्वदी? स्तः, पाटयतीति पाटूपटः, पक्षे पाटः। 2 नन्द्यादिः 'युवोरनाको' नन्दनः (आह्लादकः) / 3 न वक्तीति अवाची 'ननि' इति तत्पुरुषसमासः इनां शौ सौ' इति दीर्घः / 4 अपराध्यतीति अपराधी / 5 चतुषु तिवादिप्रत्ययेषु यत्कार्य भवेत् तत् शित्प्रत्ययेऽपि भवेदिति भावः / 6 धयतीति धयः / स्तनं धयतीति स्तनंधयो बालः / 7 इदं सूत्रं पुस्तकद्वयेऽपि नास्ति / विशेषेण आजिघ्रतीति व्याघ्रः ' उपसर्गे आदन्तात् ' इति कः. 'आतोऽनपि इति आलोपः। 8 ज्वल ज्वलने / तप संतापे / णित्त्वात् 'अत उपधायाः' इति वृद्धिः /