________________ सिद्धान्तरत्निका व्याकरणम् / 4 यु-चोरनाको / 1 वाचकः / पाचकः / दायकः / 5 नाम्युपधात्कः 2 / क्षिपः / बुधः / वृतः / 6 प्री-कृ-ज्ञाभ्यश्च 3 / प्रियः / किरः / ज्ञः / 7 उपसर्ग आदन्तात् 4 / प्रदः / सुग्लः / 8 पचि-नन्दि-ग्रहादेर-यु-णिनिः / पचादेरः / नन्द्यादेर्युः / . ग्रहादेणिनिः / पत्रः / वदः / चरादीनां वा द्वित्वं पूर्वस्य आक् अप्रत्यये 5 / चराचरः / चलाचलः / हन्तेहस्य घत्वं च वा 6 1 स्पष्टमिति क-ख-पुस्तकयोर्विशेषः / युकारस्यानः, वुणः अक आदेश: स्यात् / तयोरकारान्तत्वाद् देव-जिनवद्रूपाणि / 'आतो युक्' दायकः / गायतीति गायकः / 2 कस्य कित्त्वाद् गुणो न स्यात् / 3 प्रीञ् तर्पणे / कृ विक्षेपे / जानातीति ज्ञः, कित्त्वाद् ' आतोऽनपि' इत्यनेन सूत्रेणाऽऽकारस्य लोपः / 4 उपसर्गपूर्वादादन्तधातोः कः प्रत्ययः स्यात् / 5 अत्र स्थाने ' चराचरादयो निपात्याः / इत्येव पुस्तकद्वये पाठः / चरिचलि-पति-वदयश्चरादयः / पतापतः। वदावदः / आगागमसामर्थ्यादत्र ' हूस्वः / ' पूर्वस्य हसादिः शेषः' इत्यादिसूत्राणि न लगन्ति / 6 हन्ते द्वित्वं पूर्वस्य हस्य घत्वं वाऽप्रत्यये परे, चंकारात् पूर्वस्य आक्, उत्तरहस्य तु 'पूर्वाद्धन्तेर्हस्य घः' इति घः / घनाघनो घनो मेघः, इति धनञ्जयनाममाला / पक्षे हन्तीति हनः / ततो वेगानलोत्पातपतापतघनाघनः, इति त्रिषष्टिचरिने /