________________ अथ कृदन्तप्रकरणम् / 1 कृत्कर्तरि 1 / वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञकास्ते च कर्तरि ज्ञेयाः / 2 तृ-वुणौ / धातोस्तृ-वुणौ प्रत्ययौ स्तः 2 / 3 कृतः / वसादेः कृत इट् स्यात् 3 / भविता / पक्ता / जगद्धितवचनाय शान्तिकर्ने महीयसे / श्रीवीराय नतिं कृत्वा टिप्पणं क्रियते कृतः // 1 // 1 यस्मिन् सूत्रे कर्मणि भावे इति नोक्तं स्यात् ते प्रत्ययाः कर्तरि वेदितव्याः / 2 एतौ प्रत्ययौ सर्वेभ्यो धातुभ्यो भवितुमर्हतः, तेन अत्ता, होता, देविता, इत्यादि स्यात् / कृत्प्रत्ययान्ता धातवो नामसंज्ञां लमन्त कृत्-तद्धित-समासान्तानां प्रातिपदिक( नाम )संज्ञा भवतीति नियमात् / नामसंज्ञाऽनन्तरं 'तस्मात् सि-औ-जस्० अनेन स्यादयः सप्त विभक्तयो भवन्ति / ततश्च पदसंज्ञा स्यात् / 3 ये धातवः सेटस्तेभ्य एव कृत इट् स्यान्नानिड्भ्यः / ये वेटस्तेभ्यो विकल्पेनेड् स्यादेव / भवतीति भविता भवितारौ / भवितारम् भवितृन इत्यादीनि कर्तृवद् रूपाणि ज्ञेयानि /