________________ 148 सिद्धान्तरनिका व्याकरणम् / 450 लभेरिण-गमोर्नुम्बा / अाम्भ / अलाभि / गौणे 1 कर्मणि दुद्यादेः प्रधाने नी-ह-कृष-वहाम् / बुद्धि-भक्षार्थयोः शब्दकर्मकाणां निजेच्छया / 1 / प्रयोज्यकर्मण्यन्येषां ज्यन्तानां लादयो मताः / गौर्दुह्यते पयः२। अजा ग्राम नीयते ह्रियते कृष्यते उद्यते / बोध्यते 1 यत्र प्रयोगे कर्मद्वयं स्यात्, तत्र कुत्र लडादयः कर्तव्याः ! गौणे, मुख्य वा कर्मणि, आहोस्विदुभयत्र ? इत्याशङ्कानिरासायाह-दुह्यादिद्वादशधातूनां गौणे कर्मण लादयः प्रत्ययाः स्युः, न्यादिचतुर्वातनां मुख्ये कर्मणि स्युः, ञ्यन्तानां बुद्धि-भक्षणार्थक-शब्दकर्मकाणां निनरुच्यनुसारं लादयः प्रत्यया विधेयाः, अवशिष्टन्यन्त घातूनां तु प्रयोज्ये-गौणे कर्मणि लादयः प्रत्ययाः स्युः / लादय इति लट्-लिङ लोडादयो वेदितव्याः / प्रधान-गौणलक्षणं चेदं वाक्यप्रकाशे आरभ्यते क्रिया यस्मै तद् दुग्धाद्यं प्रधानकम् / तसिद्धयै क्रियया यत्तु व्याप्यते यद् गवादिकम् / तदप्रधानं गौणाख्यं गोपालो दोग्धि गां पयः // 2 गौरिति गौणं कर्म, अत्र लट्प्रत्ययेन कर्मण उक्तत्वात् 'अन्योक्ते प्रथमा' इत्यनेन प्रथमा विभक्तिः, पयसि तु मुख्यकर्मत्वाद् द्वितीया विभक्ति र्विद्यते / एवं अना-धर्म-ओदन-कोष-ग्राम इति मुख्यं कर्म, अवशिष्टं तु गौणम् / अभधानम् , गौणम् , प्रयोज्यमिति