________________ 144 सिद्धान्तरत्निका व्याकरणम् / त्वाद न मध्यमोत्तमौ, प्रथमातिक्रमे कारणाभावात् प्रथमपुरुषः / भूयते 1 भूयेत / भूयताम् / अभ्यत / बभूवे / 439 स्वरान्तानां हन्-ग्रह-दृशां च भाव-कर्मणोः सि-स-ता-सी-स्यपामिड् वा, स इण्वच्च 2 / भाविषीष्ट भविषीष्ट / माविता भविता / माविष्यते भविष्यते / अभाविष्यत 3 / . 440 इण तन्यकर्तरि / धातोस्तनि परे भावे कर्मणि च इण् प्रत्ययः, सेरपवादः / 'लुक् ' अमावि / अकर्मकोऽप्युपसर्गवशात्मकर्मकतामनुभवति / सुखमनुभूयते स्वामिना / फल-व्यापारयोरेकनिष्ठतायामकर्मकः धातुस्तयोधर्मिभेदे सकर्मक उदाहतः 4 / 1 / तृतीया स्यात् / भावे प्रथमपुरुषत्वमेकवचनञ्च स्यात् , कर्मणि तु कर्तुरिव प्रथम-मध्यमोत्तमपुरुषाणां कर्मण एक-द्वि-बहुत्वस्य च संभवात् सर्वत्र पुरुषत्रयमेक-द्वि-बहुवचनानि च भवितुमर्हन्ति / 1 भधातोरकर्मकत्वेन भावे एवास्य प्रयोगो घटते, अत एवात्र प्रथमपुरुष एकवचनं च स्यात् / यक्वत्ययस्य कित्त्वेन गुणाभावः, 'स धातुः' इत्यनेन धातुसंज्ञाऽनन्तरं त्यादयः। 2 विकल्पेन वृद्धयादिकार्याय इण्वत्करणमिडः / 3 अभविष्यत / 4 चैत्रः शेते, अत्र फल-व्यापारयोरेकनिष्ठता / चैत्र ओदनं पचति, अत्र तु फल-व्यापारयोभिन्नाधिकरणत्वम् /