________________ 142 सिद्धान्तरत्निका व्याकरणम् / अथ लकारार्थप्रक्रिया / .. 430 स्मृत्यर्थयोगेऽपि 1 भूनार्थानद्यतने धातोर्लेट् / लङोऽपवादः / स्मरसि कृष्ण ! गोकुले वत्स्यामः / 431 यद्योगे उक्तं न 2 / स्मरसि यद्वनेऽमुज्वहि / 432 अत्यन्तापह्नवे लिट् | त्वं कलिङ्गष्ववात्मी: ? नाहं कलिङ्गाञ्जगाम / / 433 उत्तमपुरुषे चित्तविक्षेपादिना 3 पारोक्ष्यम् / सुप्तोऽहं किल विललाप। 434 स्मे लट् / प्रव्रजति स्म स्थूलभद्रः / 435 वर्तमानसमीपे भूते ,भविष्यति च वा लट् / कदाऽऽगतोऽसि ? अयमागच्छामि अयमागमं वा। कदा गमिष्यसि ! एष गच्छामि गमिष्यामि वा। 436 अनेकक्रियासमुच्चये वा लोट् / तस्य हि-स्वौ, 1 अपिशब्दाद् बुध-नितिर-ज्ञाऽऽदिधातूनामपि ग्रहणम् / बुध्यते चेतति चेतयति जानाति वा भवान् ? रैवतगिरौ नेमिनाथं नस्यामः / 2 स्मृत्यर्थयोगे लङः स्थाने लट् न स्यात् / यदित्यनेन यच्छब्दरूपाणि ग्राह्याणि / स्मरसीह शश्वन न्यवसाम यस्यामिति द्वयाश्रयप्रयोगात् / 3 आदिशब्दाद् मद-रोग-स्वप्नभयादिकारणानां ग्रहणम् /