________________ (12) शास्त्राणां तत्कर्तृणां च नामोल्लेखे प्रथमतयोल्लेखः कृतः / तथा चायं तत्कृतः श्लोकः इन्द्रश्चन्द्रः काशकृत्स्नापिशली-शाकटायनाः / पाणिन्यमर-जैनेन्द्रा' जयन्त्यष्टौ च शाब्दिकाः // (धातुपाठे ). सारस्वतकृताऽपि " इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः" / इति मङ्गलश्लोकेऽस्यैव नाम प्रथम गृहीतं तेन विज्ञायतेतगम्, यदेतद् व्याकरणं पुरा तद्वेदिनां हृदयाम्बुजे महत्तरं स्थानमासादितवदिति, परं साम्प्रतमस्माकं दुर्दैववशान्नैतत्त्वचिदप्युपलभ्यत इति महदुःखावहमस्ति / अनुयोगद्वाराख्यागमे चैकाक्षर-व्यक्षरादिनामविषयस्य सोपेण, प्रथमादिसम्बोधनान्ताष्टविभक्ति-समाससप्तक-तद्धिताख्यातप्रत्ययविषयस्य च विस्तरेणोल्लेखो दृश्यतेतराम् / पाणिनिमुनितुल्यव्याकरणविद्याविशारदैः *श्रीहेमचन्द्राचार्यमिश्रेस्तु सर्वव्याकरणेषु मुकुटायमानं मूलसूत्र-लघुवृत्ति-बृहद्वृत्तिबृहन्न्यास-धातुपाठादिकलितं सपादलक्षश्लोकप्रमाणं साङ्गं नाम्ना + श्रीविनयविजयोपाध्यायप्रभृतीनां मतेन जैनेन्द्र इति भगवद्विहितव्याकरणस्य निर्देशः / * एषामाचार्याणां सत्तासमयो वि. सं. 1145 तः 1229 पर्यन्तम् /