________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनं स्वयमेकवर्षेण संहब्धम् * / ततोऽस्माकमागमग्रन्थकृद्भिस्तदन्याचार्यैश्च सकलाः किल कला विद्याश्च प्रतिपादिता इति स्पष्टतमं सिद्धम् / अथ प्रस्तुतव्याकरणकर्तुः प्रस्तुतव्याकरणस्य च समीक्षा कुर्महे / व्याकरणग्रन्थस्यास्य सिद्धान्तरत्नापराभिधस्य के किल कोविदाः कर्त्तार; ? ते च किन्नामधेयाः ? किन्देशीयाः ! किमाम्नायाश्च ? इत्यादिका जिज्ञासाः स्वभावत एवोल्लसेयुनिज्ञासुप्रज्ञानां मनोज्ञप्राज्ञानां चेतत्ति / किन्तु प्रथममिदमावेदनीयं नानुचितं भवेद् यदस्य व्याकरणस्य बहूनि मूलसूत्राणि तु प्रायेण सारस्वतचन्द्रिकाव्याकरणस्य प्रतिमतां बिभ्रति, ततोऽस्य मूलसूत्रकारास्तु सारस्वतचन्द्रिकाकारा एवानुमन्तव्या इत्यस्मन्मतम् , वृत्तिकारस्त्वस्य सहृदयहृदयचकोरचयचन्दनचन्द्रः श्रीजिनचन्द्रोअस्तीति प्रान्तलिखितैकश्लोकावयवेन प्रकटं प्रतीयते / परन्तु श्रीनिनचन्द्रनाम्नामनेकाचार्य-मुनिवर्याणां सञ्जातत्वेन कतमः स श्रीजिनचन्द्रो योऽस्य वृत्तिकार इति क्विारणीयम् / ___ * सूत्र-वृत्ति-लिङ्गानुशासन-धातुपाठ-गणपाठ इति पञ्च व्याकरणस्याङ्गानि / श्रीहेमाचार्यैः श्रीसिद्धहेमाभिधानं पञ्चाङ्गमपि व्याकरणं सपादलक्षग्रन्यप्रमाण संवत्सरेण रचयाञ्चक्रे, इति प्रबन्धचिन्तामणिस्यसिद्धराजप्रबन्धे। __* सिद्धान्तरनिका-सिद्धान्तरत्नयोर्नार्थभेदः कश्चिदप्यस्ति।