________________ आरमनेपदप्रक्रिया। 410 संप्रतिभ्यां च / शतं संजानीते / प्रतिनानीते / 411 वे शब्दकर्मणः कुत्रः / शब्दं विकुरुते 1 / 412 अवाद्विरतेः। अवगिरते 2 / 413 समः प्रतिज्ञाने / शब्दं नित्यं संगिरते / 414 मनुष्यादीनां संभूयोचारणे 3 / संप्रवदन्ते द्विजाः। 415 अपाच / न्यायमपवदते / 416 उदश्चरस्त्यागे / धर्ममुच्चरते त्य नतीत्यर्थः / / 417 उपाद्यमः स्वीकारे / भार्यामुपयच्छते 5 / 418 भुजोऽपालने / ओदनं भुङ्क्ते / / 419 कर्मव्यतिहारे धातोरात् 6 / व्यतिराते / 1 व्यकृत। शब्दकर्मण इति किम् ! मानपं विकरोति मनोजः। 2 अवगिलते / अवनगरे अवजगले / अवगरीतासे अवगरितासे / 3 वदः इति ख-पुस्तके विशेषः / यना दित्वात् ' णबादौ पूर्वस्य / 'यनां यवराणां 0' इति सूत्राभ्यां संप्रसारणम् / संघोंद / संप्रवदिताध्वे / संप्रावदिष्ट / 4 त्यागे इति किम ? भक्तामरस्तोत्रमुच्चरति चैत्रः / 5 “यमः सिः किद्वा विवाहे” इत्यनेन सूत्रेण विकल्पे किति 'नो लोपः' इति नलोपः, उपायत पक्षे उपायंस्त उपायंस्थाः उपायसि / गान्धर्वेण विवाहेन स्वयमेव ह्युपायत, इति त्रिषष्टौः। 6 अन्यस्य योग्य कार्यपपरः करोति, अपरस्य चान्यः, स व्यतिहारः, तस्मिन्न सर्वधातुभ्य आत्मनेपदं स्यात् / अन्यो व्यतिस्ते तु ममापि धर्मः, इति भट्टिः / व्यतिररे व्यत्यरास्त /