________________ 136 सिद्धान्तरत्निका व्याकरणम् / 389 आङो दाना स्वीकारे / विद्यामादत्ते 1 / 39.0 आङि पृच्छेः / आपृच्छते 2 / 391 शप उपालम्भे / विप्राय शपते 3 // 392 समवप्रविभ्यः स्थः / संतिष्ठते 4 / 393 आङः प्रतिज्ञायाम् / शब्द नित्यमातिष्ठते / 394 उपान्मन्त्रकरणादिषु 6 / उपसर्गहरणस्तोत्रेण / पार्श्वनाथमुपतिष्ठते मान्त्रिकः / 395 वा लिप्सायाम् / प्रमुमुपतिष्ठते / उपतिष्ठति वा / . 396 उद्विभ्यां तपोऽकर्मकात्स्वाङ्गकर्मकाच / उत्तपते सूर्यः / वितपते पाणिम् 7 / 1 'अपिद्दा-धा-स्थामात इत्' आदित / 2 ‘णबादौ पूर्वस्य' ', 'ऋ-संयोगाण्णादिरकित् / तेन परस्य न संप्रसारणम् / आपप्रच्छे / लुङि आप्रष्ट आप्रक्षाताम् / 3 शेपे / अशप्त / 4 अवतम्थे / वाग्भटः प्रास्थित शत्रुञ्जयतीर्थम् / 5 मीमांसकः / 6 आदिग्रहणाद् देवपूजा-सङ्गतिकरण-मित्रकरण-पथिषु, क्रमेणोदाहरणावलीयम्-जिनेन्द्रमुपतिष्ठते जिनदत्तः, साधुमपतिष्ठते धर्मपालः, मित्रमुपतिष्ठते श्रीपारः / कश्मीरमुपतिष्ठतेऽयं पन्याः / अकर्मकाच्च स्थाधातोरात्मनेपदमिति परे, तेन जिनपाल उपतिष्ठते, स्वयमेवागच्छतीत्यर्थः / 7 सकर्मकात् तु स्वाङ्गकर्मकादेवात्मनेपदम् , तेन मिनर क्षितः उत्तपति जिनपालस्य पाणिं, घृतं वेत्यादिषु नात्मनेपदम् / उत्तपे उदतप्त।