________________ 132 सिद्धान्तरनिका व्याकरणम् / 369 कचिद्यः स्वरवत् / गव्यति / नाव्यति 1 / 370 हसायस्य लोपो वाऽनपि नामधातौ / त्वद्यति 2 // स्वदाञ्चकार / मद्यति / मदाञ्चकार / सुष्मद्यति 3 / अस्मद्यति / वाच्यति / समिध्यति / समिधिता / 371 काम्यश्च 4 / पुत्रकाम्यति 5 / 372 हसाचद्धितयस्य लोपो ये च्चौ च / गार्गीयति 6 / 373 मान्ताव्ययाभ्यां यो न / ( काम्यस्तु स्यादेव ) किंकाम्यति / स्वःकाम्यति / 374 करणे च / नाम्नः करणेऽर्थेऽपि यः / नमस्यति / 1 प्रवहणार्थकनौशब्दः, नावमिच्छतीति नाव्यति, अयं धातुः ख पुस्तके नास्ति। 2 त्वां मामिच्छतीति स्वद्यति मद्यति / 3 युवां युष्मान् वैच्छतीति युष्मद्यति / अयुष्मदीत् अयुष्मद्यीत् / 4 चकारान्नाम्न इच्छाऽर्थे काम्यप्रत्ययोऽपि भवतीति भावः / 5 अर्थवद्ग्रहणे नानर्थकस्य ग्रहणमिति परिभाषया 'हसाद्यस्य लोपो वा. अनेनात्र यलोपो न स्यात् पुत्रकाम्याञ्चकार / अपुत्रकाम्यीत् / 6 गर्गस्यापत्यं पुमानिति तद्धितेन ण्यप्रत्यये कृते सति गार्ग्यः सिद्धांत, ततो गार्ग्यमिच्छतीति गार्गीयति / अगार्गीयिष्टाम् / 7 नमः करोतीति नमस्यति श्रणिको महावीरप्रमुं, पूजयतीत्यर्थः / नमसाश्चकार नमस्याञ्चकार /