________________ 126 सिद्धान्तरत्निका व्याकरणम् / यङ्वाच्यः 1 / अटाट्यते / 353 कचित्स्वरादेरपि रस्य न द्वित्वनिषेधो यकारे / अरार्यते 2 / 354 लुपादीनां गर्हायामेव या 3 / लोलुप्यते / 355 अम-जपां नुक् / अमान्तानां जपादीनां 4 च पूर्वस्य नुक् 5 यङ्-यङलुकोः / ययम्यते / तंतन्यते / जंजप्यते / दंदश्यते। बंभज्यते / 1 सूच्यादीनां बहुस्वरत्वादट्यादीनां स्वरादित्वादनेन सूत्रेण यविधानम् / सोसूच्यते / सोसूत्र्यते / मोमूत्र्यते / अट गतौ / कुटिलमटतीति अटाट्यते / अशूङ व्याप्तौ / अशाश्यते / ऊर्गुञ् आच्छादने / 'यङि 'ये' उर्णोनूयते / 2 ऋ गतौ / कुटिलमृच्छतीति पूर्वगुणं कृत्वा अर्य इति करणीयम् ,ततः सस्वरस्य यस्य द्विर्भावः, ततश्च 'आतः' इति सूत्रेण पूर्वरकारस्थाकारस्य दीर्घः अरार्यते / अराराञ्चक्रे / अरारिष्ट / 3 लुप-सद-चर-जप-जम-दह-दंश-गृ इत्येते लुपादयः / गर्हितं लुम्पतीति / षद्ल विशरणादौ सासद्यते / " गिरते रेफस्य लत्वं यङि" जेगिल्यते / 4 मप-जभदह-दंश-भञ्ज-पत-चर-फला नपादयः / 5 नुगनुस्वारत्वेन बोद्धयः, स च पदान्तवज्ज्ञेयः, तेन ‘वा पदान्तस्य ' इति सूत्रेण परसवर्णो विकल्पेन भवति / यँय्यम्यते / तन्तन्यते / जञ्जप्यते / दन्दश्यते। बम्मन्यते / जंजन्यते जञ्जन्यते 'जन-सन-खनामात्वं० जाजायते। "चर-फलयोः पूर्वात्परस्याकारस्य यड्यङ्लुकोरुकारः स्यात् " 'वोनि हसे चंचूर्यते चञ्चूर्यते / पंफुल्यते पम्फुल्यते / पस सौत्रो धातुर्गत्यादौ पंपस्यते पम्पस्यते / ..