________________ सिद्धान्तरत्निका व्याकरणम् / 317 अमन्ताश्च 1 / शमयति 2 / 318 न कम्यमिचमः 3 / कामयति 4 / 319 कचिदुपसर्गे न / निशामयति / आयापयति 5 / ईष्य ईर्ष्यायाम् / ईग्रयति / ऐयॆयत् / 320 ईय॑तेस्तृतीयो हस एकस्वरो वा द्विः / ऐयियत् ऐर्षिष्यत् / 1 चकारादमन्ता अपि धातवो मित इत्यर्थः। मारणाद्यर्थकज्ञाकम्पनार्थकचलि-हर्षाद्यर्थकमदी-व्यक्तशब्दार्थकध्वन-जनी-जष-क्नसुरञ्जप्रभृतयोऽपि मितः सन्ति / अनुपसर्गा ज्वल-बल-मल-नमा ग्ला-स्ना-वनु-वमाश्च विकल्पेन मित्त्वं यान्ति / तेन ज्वलयति ज्वालयतीति रूपाणि स्युः / 2 अशीशमत्-त / 3 मित इत्यस्य मण्डूकप्लुतिन्यायेनानुवृत्तिरेवमग्रऽपि यथाप्रयोजनं बोध्या / 4 कामयानि। अचीकमत्-त। आमयति। लघुधात्वक्षरस्य परत्वाभावात् पूर्वस्य न दीर्घः, आमिमत-त / अचीचिमत्-त / 5 न्यशीशमत्-त / आयामयाञ्चके / आयीयमत्-त / एवमवस्खादयति परिवादयतीत्यनयोरपि न मित्त्वम् , तेन ह्रस्वोऽपि न स्यात् / 6 हसापेक्षया तृतीयहसस्य स्वरसहितस्य, तृतीयस्वरस्य हससहितस्य वा द्वित्वं भवति / प्रथमपक्षे यकारस्य द्वित्वे ऐग्रियत् , द्वितीयपक्षेऽत्र तृतीयस्वरस्याभावात् 'स्वरादेः परः ' रेफस्य निषेधात् षकारस्य द्वित्वे ऐषिष्यत् / तृतीयैकस्वरपक्षः सान्ते प्रवर्तते, तेन सान्तेऽपि ईयिषिषति ईयियिषति इति रूपद्वयम् /