SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 2.1 स्वादिषूभयपदिनः / अथ स्वादिषूभयपदिनः 1 / षुब् अभिषवे 2 / 261 स्वादेर्नुः / स्वादर्नुः प्रत्ययः स्यात् कर्तरि चतुषु / 262 नूपः। नुप्रत्ययस्य 3 च गुणः स्यात् पिति / सुनोति / 263 ओोर्वा लोपः। असंयोगपूर्वस्य प्रत्ययस्योकारस्य लोपो वा स्याद् वमयोः / सुन्वः सुनुवः / __ 264 ओर्वा हैः। असंयोगपूर्वात्प्रत्ययोकाराद्धेलुक् स्यात् / सुनु 4 / चिञ् चयने / - 265 चिनोतेः स-णादौ किर्वा / चिकाय चिचाय 5 // स्तृब् आच्छादने 6 / 1 स्वादिगणे षुधातोरादित्वान्नित्यमुभयपदित्वाच्चात्र प्रथममुभयपदिनो धातवः, एवं रुधादिष्वपि ज्ञेयम् / 2 स्नान-पीडनमन्थनार्थकोऽभिषवः / म्नानार्थकोऽयमकर्मक इति चन्द्रप्रभाकारः / 3 उपप्रत्ययस्य / 4 सुनवानि / सुषाव / सोष्यति / 'स्तु-सु--धूनां पे सेरिट ' असावीत् / सुनुते सुन्वते / सुनवामहै / सुषुवे / सोषीष्ट / असोष्ट / 5 चिनोति चिनुते / चिचयिथ चिचेथ / अचैषीत् / चिक्ये चिच्ये / अचेष्ट / 6 स्तृणोति / तस्तार 'गुणोऽत्तिसंयोगाद्योः ' तस्तरतुः तस्तर्थ / स्तर्यात् / अस्तार्षीत / स्तृण्वीत /
SR No.004480
Book TitleSiddhantratnikakhyam Vyakaranam
Original Sutra AuthorN/A
AuthorJayantvijay, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages278
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy