________________ 88 सिद्धान्तरनिका व्याकरणम् / . 200 रुदादेश्वतुर्णा बसादेः / रुदादेः परस्य हकारवसादेः प्रत्ययस्येट् स्यात् चतुषु / रोदिति रुदितः / .. ... 201 रुदादेर्दिस्योरीडटौ। अरोंदीत् अरोदत् 1 / बिष्वप् शये / स्वपिति 2 / श्वस् प्राणने 3 / अन् प्राणने / 202 प्रादे रेफादनितेनस्य णत्वम् / प्राणिति 4 / जक्ष भक्षणे / / 203 जक्षादेरन्तोऽदन उस् / नक्ष-जागृ-दरिद्रा-शास्चकासृभ्यः परस्यान्तोऽत् , अन उस् स्यात् / जक्षति / अजक्षुः 5 ( इति रुदादयः ) / जागृ निद्राक्षये 6 / . 204 जागर्तेर्वीण-णब्-डिद्भिन्नेषु गुणः / जनागरतुः / जागर्यात् / अजागरीत् / दरिद्रा दुर्गतौ / 205 दरिद्रातेरिदालोपश्च ङिति / दरिद्रातेरातो लोपो ङिति स्वरे, इकारश्च ङिति हसे / दरिद्रितः / 1 रुरोद। रोदिता / अरुदत् अरोदीत् / 2 सुष्वाप सुष्वपिय सुष्वप्थ / स्वप्ता / 3 अश्वसीत् / 4 प्राण / प्राणीत् / 5 जक्षिति जक्षितः / अनक्षीत् अनक्षत् / जनक्ष / जक्षिष्यति अनक्षीत् / 6 जागर्ति जाग्रति / " उसि गुणः " नाम्यन्तस्य धातोर्गुणः स्यादन्प्रत्ययादेशे उसि परे। अनागरुः / नागराञ्चक्रतुः।