________________ अदादिषु परस्मैपदिनः। मा माने। . 176 आदन्ताद् द्विषो लङोऽन उस् वा / अमुः अमान् 1 / ख्या प्रकथने 2 / 177 अस्यति-वक्ति-ख्यातिभ्यो ङो लुङि सेरपवादः। अख्यत् / वश कान्तौ 3 / 178 दिस्योईसात् / हसान्तात्परयोर्दिप्-सिपोर्लोपः / अवट अवड् / हन् हिंसा-गत्योः / हन्ति / 179 लोपस्त्वनुदात्त-तनाम् / अनुदात्तानां जमान्तानां 4 तनादीनां 5 वनतेश्च 6 ञमस्य लोपो भवति किति झसे हकारे च / हतः / नन्ति / हन्यात् / हन्तु हतात् हताम् नन्तु / 180 जोधि-शाधि / हन्ते हिरस्तेरेधिः शास्तेः शाधिनिपात्यते हिविषये / जहि / 181 पूर्वाद्धन्तेर्हस्य घः / जघान जघनिथ जघन्थ / 182 हनो लुङ्-लिङोर्वधः, लुङयाति वा / वध्यात् / 1 ममौ / अमासीत् अमासिषुः / 2 चख्यौ / ख्येयात् ख्यायात्। 3 कान्तिरिच्छा / वष्टि उष्टः उशन्ति / उड्।ि उवाश ऊशतुः उवशिथ / अवाशीत् अवशीत् / 4 यमि-रमि-नमिगमि-हनि-मनीनाम् / 5 तनु-षणु-क्षिण-क्षणु-ऋणु-तृणुघृणु-वनु-मननाम् / 6 वन संभक्तौ इत्यस्य ग्रहणम् /