________________ भ्वादिषु परस्मैपदिनः / 132 यजां य-व-राणां कृतः संप्रसारणं किति / यजादीनां संप्रसारणं स्यात् किति / यजिर्वपिर्वहिश्चैव वेश्-व्येनौ हयतिः स्वपिः / वदि-वसी श्वयतिर्वक्तिरेकादश यजादयः॥ 1 // 133 घसादेः षः / घसि-शासि-वसीनां सस्य षः स्यात् निमित्ते सति / ऊषुः उवसिथ उवस्थ / उष्यात् / 134 सस्तोऽनपि / सस्य तोऽनपि से / वत्स्यति / अवात्सीत् / रुह बीजजन्मनि प्रादुर्भावे च / रोहति / रुरोह होहिथ / 135 ढि हो लोपो दीर्घश्च / ढे परे ढस्य लोपः स्यात् चानृतो दीर्घः स्यात् / रोढा / अरुक्षत् / / . मिह सेचने। मेहति / मिह्यात् / मेढा / अमिक्षत् ।क्षि क्षये / क्षयति / चिक्षाय चिक्षेयं चिक्षयिथ / क्षेता। अक्षर्षत् / दह भस्मीकरणे / देहिथ ददग्ध / धक्ष्यति / अधीक्षीत् अदाग्धाम् / श्युतिर क्षरणे / श्योतति। अश्च्योतित् अश्च्युतत् / ईj ईर्ष्यायाम् / फुल्ल विकसने / कुथि हिंसा-संक्लेशनयोः / पिधु गत्याम् / खादृ भक्षणे / . उख गतौ / 136. असवर्णे स्वरे पूर्वस्येवर्णोवर्णयोरियुवौ / उवोख / औखीत् /