________________ 76 सिद्धान्तरनिका व्याकरणम् / दशति / ददष्ठ / दश्यात् / अदासीत् / पा सङ्गे / सनति / ससक्थ / सन्यात् / असाहीत् / .. कित रोगापनयने संशये च / / 125 गुब्भ्यः / गुप्-तिज्-कित्-बध्-मान्-दान्-शान्भ्यः स्वार्थे स प्रत्ययः स्याद् धातोश्च द्वित्वम् / 126 यः से / पूर्वस्यात इत् स्यात् से / चिकित्सति / चिकित्सांचक्रे / चिकित्स्यात् / अचिकित्सीत् / पल पतने / पतति / पेततुः / पेतिथ / पतिता / 127 पतेर्डे पुम् / अपप्तत् / भ्रमु चरने / 128 शमां दी? ये। भ्राम्यति भ्रमति / 129 फण-राजु-भ्रातृ-भ्रातृ-भलाश-स्यमु-स्वनजृष-भ्रमु-त्रसाम् / एत्वपूर्वलोपोवा। भ्रमतुः बभ्रमतुः / अभ्रमीत् / टुवम् उद्गिरणे / वमति / वम एत्व-पूर्वलोपौ वेति केचित् / वेमतुः ववमतुः / अवमोत् / स्वन शब्दे / स्वनति / स्पेनतुः सस्वनतुः / स्वेनिथ सस्वनिथ / अस्वानीत् अस्वनीत् / / वस निवासे / वसति / 130 णवादौ पूर्वस्य / यजादीनां ग्रहादीनां च पूर्वस्य संप्रसारणं स्याद् णवादो। 131 य-व-राणामिदुदृतः / यथासङ्ख्यम् / सस्वरस्य संप्रसारणम् / दीर्वस्य दीर्घः, हस्वस्य हूस्वः / उवास /