________________ प्राकृतशब्दरूपावलिः .॥अथ स्वप्नशब्दः // एकवचनम् बहुवचनम् प्रथमा सिविणो सिमिणो सिविणा सिमिणा द्वितीया सिविणं सिमिणं सिविणे सिविणा / सिमिणे सिमिणा इत्यादि / इ: स्वप्नादौ // 8 / 1 / 46 // इत्यनेनादेरकारस्येत्वम् // स्वप्ने नात्. / / 8 / 2 / 108 // इत्यनेन स्वप्न शब्दे नकारात्पूर्व इकारः / स्वप्ननीव्योर्वा // 8 / 1 / 259 // इत्यनेन वकारस्य वा मकारः / आर्षे उकारोऽपि / यथा / सुमिणो, सुमिणा, इत्यादि / ॥अथ वेतसशब्दः // एकवचनम् बहुवचनम् प्रथमा वेडिसो वेडिसा .. द्वितीया वेडिसं .. वेडिसे वेडिसा ... इत्यादि / इत्वे वेतसे // ,8 / 1 / 207 // इत्यनेन तस्य डकारः / इत्वाभावे तु / वेअसो वेअसा इत्यादि / . ॥अथ मृदङ्गशब्दः / / एकवचनम् बहुवचनम् प्रथमा मिइङ्गो. मुइङ्गो मिइङ्गा मुइङ्गा _ इत्यादि . . ॥अथ नसृकशब्दः॥ एकवचनम् . बहुवचनम् प्रथमा नत्तिओ नत्तुओ नत्तिआ नत्तुआ