________________ 249 प्राकृतशब्दरूपावलिः _ एवं सप्तन्-अष्टन्-नवन्-दशन्प्रभृतयः / / द्विवचनस्य बहुवचनम् / / 8 / 3 / 130 // सर्वासां स्यादीनां त्यादीनां च विभक्तीनां द्विवचनस्य स्थाने बहुवचनं भवति / पाएहिं गच्छइ पादाभ्यां गच्छति / दोण्णि कुणन्ति द्वौ वा द्वे वा कुरुतः // चतुर्थ्याः षष्ठी / / 8 / 3 / 131 // मुणिस्स मुणीण वा देइ, मुनये मुनिभ्यो वा ददाति / / नमो नाणस्स नमो ज्ञानाय नमो गुरुस्स नमो गुरवे // तादर्थ्यङेर्वा / / 8 / 3 / 132 // तादर्थ्यविहितस्य डेश्चतुर्थ्येकवचनस्य स्थाने षष्ठी वा देवस्स-देवाय / देवार्थम् // क्वचिद्-द्वितीयादेः / / 8 / 3 / 134 // द्वितीयादीनां विभक्तीनां स्थाने षष्ठी वा क्वचित् / सीमाधरस्स वन्दे / अत्र द्वितीयायाः षष्ठी / धणस्स लद्धो / धनेन लब्धः / चिरस्स मुक्का चिरेण मुक्ता / तेसिमेअमणाइण्णं / तैरेतदनाचीर्णम् / अत्र तृतीयायाः षष्ठी। चोरस्स बीहइ / चौराद्विभेति अत्र पञ्चम्याः षष्ठी / पिठ्ठीए केसभारो / पृष्ठयां केशभारः अत्र सप्तम्याः षष्ठी // द्वितीया-तृतीययोः सप्तमी // 8 / 3 / 135 / / द्वितीया-तृतीययोः स्थाने क्वचित् सप्तमी / नयरे न जामि नगरं न यामि / अत्र द्वितीयायाः / तेसु-अलंकिआ पुहवी / तैरलङ्कृता पृथिवी / अत्र तृतीयायाः सप्तमी / पञ्चम्यास्तृतीया च // 8 / 3 / 136 // पञ्चम्याः स्थाने क्वचित्तृतीयासप्तम्यौ भवतः / चोरेण बीहइ / चौराद्विभेति / अन्तेउरे रमिउमागओ। अन्त:पुराद् न्त्वागतः / सप्तम्या 'द्वितीया // 8 / 3 / 137 // इत्यनेन सप्तम्या: स्थाने क्वचिद्वितीया / विज्जुज्जोयं भरइ रत्तिं / आर्षे तृतीयापि दृश्यते तेणं कालेणं तेणं समयेणं / प्रथमाया अपि द्वितीया क्वचिद् दृश्यते / चउवीसंपि जिणवरा / चतुर्विंशतिरपि जिनवराः