________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् किरणा यस्येति वा // 469 // "प्रसन्नात्मा" 470 इति / प्रसन्न:-निर्मल:, आत्मा-स्वरूपं यस्य स तथा, रजस्तमोभ्यां रहितत्वात् / प्रसन्नतामतति-गच्छतीति वा, अवाप्तसर्वकामत्वात् / / 470 // "प्रसन्नवदनः" 471 इति / प्रसन्नं वदनं यस्य स तथा / प्रसन्न वदनम्उक्तिर्यस्मादिति वा / / 471 // "ब्रह्मा" 472 इति / जगनिष्पादकत्वात् बृंहणाद्वा / 'बृंह वृद्धौ' // 472 // "ब्रह्मचर्यवान्' 473 इति / ब्रह्मज्ञानोपलक्षितं सूर्य-चर्या, तदस्यास्तीति सः / ब्रह्मणि-अधिष्ठानभूते चरति-विविधं स्वकार्यमासञ्जयतीति ब्रह्मचरी, अविद्या / ताम् अवानति-नाशयतीति वा / अवपूर्वकस्य अनतेहिँसार्थकस्य रूपम् / / 473 // “प्रद्योतः" 474 इति / प्रकृष्टः-नानाविधो द्योत:-प्रकाशो यस्य स तथा // 474 // “प्रद्योतनः" 475 इति / प्रकर्षेण द्योत्यते-प्रकाश्यते बाह्याभ्यन्तराणि वस्तूनि येनेति सः / प्रकृष्टां-दिवं स्वतेजसा तनोतीति वा / / 476 // "प्रभावनः" 476 इति / प्रभाव्यते-प्राप्यते समीहितमनेनेति स तथा / प्रभावं नयति-प्रापयतीति वा / प्रभावानाम् अवनं-रक्षणं यस्मादिति वा / प्रकृष्टा भावना यस्मादिति वा / / 476 / / “प्रभाकरः" 477 इति / प्रभाणामाकर:-उत्पत्तिस्थानम् / प्रभया-दीप्त्या कं-जलं रातीति वा / प्रभां करोतीति वा / / 477 // "प्रभञ्जनः" 478 इति / प्रकृष्टं भञ्जनं अर्थात् संसारस्य, दैत्यानां वा यस्मादिति सः / प्रभज्यते तमोऽनेनेति वा / प्रभञ्जन:-वायु:, तद्वदिति वा, पापद्रुमाणां समूलोन्मूलकत्वात् / / 478 / /