________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् यस्येति वा / पर:-परमात्मा, तदपेक्षया अवर:-जीवः, तत्स्वरूप इति वा, परात्मन एव अविद्यावच्छिन्नस्य जीवत्वात् / 'कर्मबद्धो भवेज्जीव:, कर्ममुक्तो भवेच्छिवः / / ' इत्युक्तेः / अवनम्-अव:, परोऽव: पराव:, तं राति-आदत्ते इति वा, सर्वोत्कृष्टपालनवानित्यर्थः // 462 / / "परावरज्ञः" 463 इति / पर:-उत्कृष्टः, आ-ब्रह्मा, तं वरं जानातीति सः / पर:-सज्जनः, तदपेक्षया अवर:-अधमः, तौ जानातीति वा, सदसद्विवेकज्ञातृत्वात् // 463 // “परायणः" 464 इति / जगत्प्रकाशे परायण:-तत्परः / जगतामभीष्टदातृत्वेन परायण:-अभीष्ट इति वा / 'परायणमभीष्टे स्यात् तत्परा-ऽऽश्रययोरपि // ' इति मेदिनिः / परम्-उत्कृष्टम्, अयनं-गमनं यस्येति वा / / 464 // "प्राज्ञः" 465 इति / प्राज्ञः-विद्वान् / प्रगताऽज्ञा यस्मादिति वा / प्रकृष्टा आज्ञा यस्येति वा / प्रकृष्टा आ-समन्ताद् ज्ञा यस्येति वा // 465 / / “पराक्रमः" 466 इति / परान्-शत्रून् आक्रमत इति पराक्रमः / पराप्रातिलौम्येनाक्रमति तम इति पराक्रमः, शक्तिरिति वा; धर्मधर्मिणोरभेदोपचारात् // 466 / / . : "प्राणधारकः" 467 इति / प्राणान् धारयतीति सः / नानाविधव्याधिविनाशकत्वेन प्राणधारक इति वा / प्राण:-सर्वोत्कृष्टबलम्, तद् धारयति भक्तानामिति वा / / 467|| “प्राणवान्' 468 इति / प्रकृष्टमणतीति वेदवक्तृत्वात् / प्राण:-ब्रह्मा, स विद्यते यस्य स तथा / अणनम्-अण: / प्रकृष्टोऽण: प्राण:-वेदध्वनिलक्षण:, स विद्यते यस्येति वा, तत्प्रयोक्तृत्वात् / / 468|| "प्रांशुः" 469 इति / प्रांशुः-उच्च:, गगनावलम्बित्वात् / प्रकृष्टा अंशव: 94