________________ श्रीसूर्यसहस्रनामसहत्रयम् "पिनाकधूग्" 453 इति / ईश्वररूपेण पिनाकं-धनुर्धर्षतीति स तया // 453 // “विन्दुः" 454 इति / निराकार इत्यर्थः। ___ 'पुंसि वृक्षविशेषे स्याद्, निन्दुर्दण्डक्षतान्तरे / ध्रुवोर्मध्ये निराकारे, कृतौ च पृषतौ तया // ' इति मेदिनिः // 454 // "बन्धुः" 455 इति / बध्नाति प्रीति जनोऽस्मिनिति बन्धुः, सर्वेषां हितकारित्वात् // 455 // . "बन्धहा' 456 इति / बध्नातीति बन्धः, अर्थात् संसारबन्धं हन्तीति स तथा // 456 // . "पुण्डरीकाक्षः" 457 इति / पुण्डरीकं-सिताम्भोजम्, तद्वदक्षिणी यस्य स तथा / पुण्डरीकाणाम् अक्षः-जीवातुरिति वा / 'विभीतकतरौ चक्रे, जीवातौ पाशके पुमान्॥' इति मेदिनिः / पुण्डरीक:-सितो वर्णः, तम् अक्ष्णोतीति वा // 457|| "पुण्यसङ्कीर्तनः" 458 इति / पुण्यं-पवित्रं सकीर्तनं यस्य स तथा, स्मृतिमात्रेणैव सर्वपापप्रणाशकारित्वात् // 458 // "पुण्यहेतुः" 459 इति / पुण्यं-सत्कर्मपुद्गलाः, तस्य हेतु:-कारणम्, धर्मप्रतिबन्धकीभूतप्रत्यूहविनाशकारित्वात् / / 459 // "परः" 460 इति / सर्वोत्कर्षकाष्ठां गतः / प्रपञ्चाद् विभिन्न इति वा // 460 // "प्राप्तयानः" 461 इति / प्राप्तं यानं-एकचक्ररथलक्षणं येन स तथा / प्राप्त यानं-गमनं यस्मादिति वा, तदुदये तत्प्रवृत्तेः // 461 // “परावरः" 462 इति / परान्-लोकान्, आवृणोति-अनुग्रहबुध्द्या गृह्णातीति परावरः / परा:-शत्रवः, तेषाम् अवर:-अनुत्तमः, तदुच्छेदकारित्वाद् वा / परान् अवति-रक्षतीति पराव:, एवंविधो र:-शब्दो 93