________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् जगद्व्यवस्थापकतया तन्नियोगेन तेषां पृथिवी धारकत्वात् / पद्मानां-पन्नगानां रज्जुतया स्थितानां योग:-सङ्गतिरस्यास्तीति वा। 'पद्मोऽस्त्री शमके व्यूह-निधि-संख्यान्तरेऽम्बुजे / ना नागे-स्त्री-कंजिका श्री-वारटी-पन्नगेषु च / / ' इति मेदिनिकारः // 435|| “पद्मयोनिः" 436 इति / पद्मयोनि:-ब्रह्मा, तदुत्पादकत्वात् / पद्मानां योनि:-कारणम्, पर्जन्यकरत्वेन तडागादिपूरकत्वात् / / 436 / / “पद्मोदरनिभाननः" 437 इति / पद्मस्य-कमलस्योदरम्-अर्थात् कोशः, तेन सदृशमाननं-मुखं यस्य स तथा / पद्मोदरेषु निभा:-प्रभाः, तास्वाननम्अग्रभागो यस्येति वा / / 437 // “पद्मक्षणः" 438 इति / पद्म-कमलम्, तद्वद् ईक्षणे-लोचने यस्य यस्माद् वा स तथा, सुन्दरनयनप्रदातृत्वात् / पद्मायाः-लक्ष्म्या ईक्षणं-दर्शनं यस्मादिति वा / पद्मानाम् ई:-शोभा, तस्याः क्षण:-उत्सवो येनेति वा // 438 // "पद्ममाली" 439 इति / पञ-कमलं निधिं वा पोषयति धारयतीत्येवंशील: पद्ममाली / पद्मानां मा-शोभा, तस्या आलय:, तासाम् ई:-शोभा यस्मादिति वा / / 439 / / “पद्मनाभः" 440 इति / पद्मं नाभौ यस्य सः, नाभे: पद्माकृतिमत्त्वात् विष्णूत्पादकत्वाद् वा // 440 // “पद्मिनीशः" 441 इति / पद्मिनीनां-कमलिनीनाम्, ईश:-स्वामी, तदुदये तासां विकाशसम्भवात् / पद्मो निधिर्विद्यते येषां ते पद्मिनः, देवाः / तान् नयतिसन्मार्गे प्रवर्तयति यः स पद्मिनी:, इन्द्रः / तस्य शं-सुखं यस्मादिति वा ॥४४क्षा "पूतात्मा" 442 इति / पूतः-पवित्र आत्मा यस्य स तथा, निर्मलान्त:करण: इत्यर्थः // 442 / / 91