________________ श्रीसूर्यसहस्रनामसहजयम् "भृताहारः" 425 इति / भृताः-सम्भृताः, अर्थात् प्राणिनामाहारा येन स तथा / भृत:-धृतः, आ-समन्ताद् हारो येनेति वा // 425 / / "भिषग्वरः" 426 इति / भिषजां वरः-प्रधानः / 'आरोग्यं भास्करादिच्छेद् // इति श्रुतेः / संसाररूपमहाव्याधिनाशकत्वाद् वा // 426 // "बुद्धः" 427 इति / बुद्ध्यते स्मेति बुद्धः, योगिभिः साक्षात्कृतः इत्यर्थः / धर्मा-ऽधर्मविवकेविचक्षण इति वा / / 427|| "बुद्धिः" 428 इति / बोधनं-बुद्धिः, कथञ्चिद्धर्म-धर्मिणोरभेदात् तद्वति तब्धपदेशः // 428 // "बुद्धिवर्धन:' 429 इति / बुद्धवर्धनो बुद्धिवर्धनः / तदुपास्तिकारिणां सर्वाधिकबुद्धिमत्त्वात् / बुद्धिं वर्धयति- छिनयत्यधार्मिकाणामिति वा // 429 / / "बुद्धिमान्" 430 इति / बुद्धिः-ज्ञानं विद्यते यस्य स तथा, अस्त्यर्थे मतुः / बुद्धिश्च मा च ते अनति-गच्छति प्राप्नोतीति वा // 430 // "बुधः" 431 इति / सर्वेषामादिभूतत्वात् सर्वात्मकत्वाद् रुद्ररूपो वा / 'बुध्नो ना मूल-रुद्रयोः / / ' इति धरणिः // 431 // “पद्महस्त:" 432 इति / पननिधिहस्ते-नियोगे यस्य सः, पद्मप्रभृतिनिधीनां तदायत्तत्वात् / / 432 / / . “पद्मपाणि:" 433 इति / फ्याकारोपलक्षितः पाणिर्यस्य सः, असंख्येयपाणिरिति वा // 433 / / “पद्मबन्धुः" 434 इति / पद्मानां बन्धुरिव बन्धुः, तद्विकाशकारित्वात् / पद्मप्रदानां बन्धुर्वा, मध्यपदलोपीसमासः // 434 // “पद्मयोगी" 435 इति / पद्मम्-अम्बुजम्, तेन सह योग:-सम्बन्धो यस्य स: / पद्मः-निधिः, तेन सह योगो यस्मादिति वा / असंख्येया योगा विद्यन्ते यस्येति वा / . पद्मेषु-हस्तिविशेषेषु योग:-नियोगोऽस्यास्तीति वा; .... 90