________________ श्रीसूर्यसहस्रनामसत्रयम् "भूषणं" 415 इति / भूष्यतेऽनेन विश्वमिति भूषणम्, त्रिजगच्छिरोऽवतंसायमानत्वात् // 415 // "भूषणोद्भासी" 416 इति / भूषणैः उत्-प्राबल्येन भासत इत्येवंशीलो यः स तथा, सर्वदा नानाविधालङ्कारोपयुक्त इव प्रतिभासमानत्वात् / / 416 // "भयान्तकरण:" 417 इति / भयस्य-भीतेः, अन्तक:-नाशकः, रण:शब्दो यस्य स तथा // 417 // "भीमः" 418 इति / भीम:-अधृष्योऽनाकलनीय इति यावत् // 418 // "भीमतः" 419 इति / भीमान्-मृत्युप्रभृतीन् तस्यति-क्षिपतीति स तथा। 'तस् उत्क्षेपे' इत्यस्य रूपम् / भी:-भयम्, तत्र मत:-सर्वैः स्मृतिगोचरीकृत इति वा // 419 // "भगः" 420 इति / भजन्त्येनमिति भगः / भानि-ग्रहनक्षत्रादीनि गच्छन्ति-अर्थादस्तमस्मादिति वा // 420 // "भगवान्' 421 इति / भगः-ज्ञानवैराग्यैश्वर्यादिः, स विद्यते यस्य स तया। 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। ज्ञान-वैराग्ययोश्चैव षण्णां भग इति स्मृतः // ' इत्युक्तेः। 'उत्पत्तिं प्रलयं चैव, भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च, स वाच्यो भगवानिति॥' वा // 421 // "भक्तवत्सलः" 422 इति / भक्ताः-तदुपास्तिकारिणो जनाः, तेषु वत्सलः-महाकारुणिक इत्यर्थः // 422 / / "बहुमङ्गलः" 423 इति / बहूनि मङ्गलानि-मालकृत्यानि जायन्ते यस्मात् स तथा, उत्तरायणगते गभस्तिमालिनि नानाविधमाङ्गलिककर्मप्रवृत्तेः // 423 // "बहुरूप:" 424 इति / बहूनि-अनेकानि रूपाणि-आकृतयो यस्य स तथा, सृष्ट्यादिकार्यभेदाद् भिन्नभिन्नाकृतिधारीत्यर्थः // 424 // .