________________ श्रीसूर्यसहस्रनामसहवयम् "भूधरः'' 397 इति / जलाप्लुतां भुवं तच्छोषणेन धरतीति यः स तथा / भूधर:-नगः, तदुत्पादकत्वाद् वा / भुवं-स्थितिमर्यादां धरतीति वा / 'भूरुत्पत्तिस्थितिभूमिषु' इत्युक्तेः // 397 // "भवद्योतः" 398 इति / भव:-संसार ईश्वरो वा, तयो?तौ-समुद्भवप्रकाशी यस्मादिति सः / भवं-जन्म तत्तत्कर्मानुसारेण द्योतयति-प्रकाशयतीति वा / 'भव: संसार-सत्ता-नि:श्रेय:-शङ्कर-जन्मसु / ' इति विश्वः / / "भूपति:" 398 इति / भू:-जगतामुत्पत्तिस्थानम्, तस्याः पति:पालयिता, सृष्टि-स्थितिकर्तेत्यर्थः // 398|| "भूष्यः' 399 इति / भूषयितुं योग्यो भूयः, स्वयं भूषितत्वेऽपि तद्भक्तैश्चन्दनादिना तन्मण्डलस्य भूष्यमाणत्वात् / / 399 / / “भोगी" 400 इति / भोग:-सुखानुभव:, सोऽस्यास्तीति भोगी। भोगा:सर्पशरीराणि रथरज्जुतया विद्यन्ते अस्य अस्मिन्निति वा // 400 // // इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्त 'खुसफहम' अपराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां सेखश्रीअबुलफलजकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां चतुःशतविवरणं समाप्तम् / / “भोक्ता" 401 इति / भुनक्तीति भोक्ता / सकलपदार्थोपभोगकारित्वात् / भुङ्क्ते इति भोक्ता सृष्टिविनाशकारी, प्रलये स्वयमेव जगन्नाशकत्वात् / 'सृजत्यवति भुङ्क्ते च सृष्टि-स्थित्यन्तकृद् विभुः / / ' इति पुराणोक्तेः // 401 / / "भुवनपूजित:" 402 इति / भुवनैर्लक्षणया तत्रस्थैर्मनुष्यैः पूजित:चन्दनादिनाऽर्चित इत्यर्थः / भुवनं पुनातीति भुवनपः, एवंविधं जितं-जयो यस्येति वा // 402 //