________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् वैराग्यरसोद्रेकवानित्यर्थः / भावित:-शोधित: आत्मा येनेति वा / 'भूकू शुद्धि-चिन्तयोः' इत्यस्य रूपम् / भया-कान्त्या अवित:-रक्षित आत्मासंसारो येनेति वा। 'आत्मा पुंसि प्रभावे च, प्रयत्न-मनसोरपि / धृतावपि मनीषायां संसार-ब्रह्मणोरपि // ' इति मेदिनिः / / 389 // "भाग्यं' 390 इति / भाग्यम्-अदृष्टम्, तदुत्पादकत्वात् / भ:-शुक्रः अग्य:-कुटिलगतियोग्यो जायते यस्मादिति वा / बुधशुक्रयोस्तादृशसानिध्यस्य वक्रताहेतुत्वात् / 'अग्य वक्रगतौ' इत्यस्य रूपम्। 'भः स्यान्मखेव शुक्रे च, भं नक्षत्रे प्रकीर्तितम् / / ' इति विश्वः / भा:-दीप्तयः, अग्या:-वृक्षहिता यस्येति वा, सूर्यकिरणानां वृक्षवृद्धिहेतुत्वात् / / 390 // "भानुः" 391 इति / भातीति भानुः, भानुस्वरूपत्वाद् वा // 391 // "भानेमिः" 392 इति / भानां-नक्षत्राणां दीप्तीनां वा नेमिः-अवधिः / 'नेमिः कूलेऽवधौ // ' इति मेदिनिः / भा नेमौ-वक्रान्ते यस्येति वा // 392 // 'भानुकेसरः" 393 इति / भानव एव केसराणि यस्य स तथा / / 393 / / "भानुमान्" 394 इति / भानव:-किरणा विद्यन्ते यस्य यस्मिन् वा स तया // 394 // 'भानुरूपः" 395 इति / भानुभि:-किरणैः रूप-सौन्दर्यं यस्य स तथा / भानां-नक्षत्राणां सेव्यतया अनुरूप:-योग्य इति वा / भानूनां रूपं-सौन्दर्य यस्मादिति वा // 395 // "बहुदायकः" 396 इति / बहु-समीहिताधिकं ददातीति स तथा / बहुदाःकर्णादयः, तेषामयः-शोभावहो विधिर्यस्मादिति वा, दातृकल्याणकर्तेत्यर्थः . // 396 // ... 86