________________ श्रीसूर्यसहस्रनामसहवयम् "दिवाकरः" 353 इति / दिवाशब्देन स्वर्गवाचिना दुःखासम्भिन्नं सुखं लक्ष्यते / तस्य आकर:-खनिः तत्प्रदातृत्वात् // 353 / / "दिवाकृत्" 354 इति / दिवा-दिनम्, तत् कृन्ततीति तथा, द्वीपान्तर्गमनेन तदुच्छेदकारित्वात् // 354 // "दिवसपति:" 355 इति / दीव्यत इति दिवौ / एवंविधौ असौ हरि-हरौ तयोः पति:-स्वामी, तयोस्तदधीनत्वात् / दिवसानाम्-अर्थात् तत्पर्वणां पति:-स्वामी, सङ्कान्त्यायधीश इत्यर्थः // 355|| "दिविस्थित:" 356 इति / दिवि-आकाशे स्थितं-स्थानं यस्य स तथा // 356 // "दिव्यवाह:" 357 इति / दिव्या लोकोत्तरा वाहा यस्य स तथा // 357|| "दिव्यवपुः" 358 इति। दिव्यं-मनोहरं वपुर्यस्मात् स तथा। दिव्यं-वैक्रियं वपुर्यस्येति वा // 358|| - "दिव्यरूपः" 359 इति / दिव्यम्-अलौकिकं रूपं-ज्योतिर्यस्य स तथा // 359|| "धुवृक्षः" 360 इति / दिव:-आकाशस्य वृक्षो धुवृक्षः, स्वर्गीयफलदातृत्वात् // 360 // "दयालुः" 361 इति / परमकारुणिकः // 361 // "देहकर्ता" 362 इति / देहः-शरीरम् करोतीति देहकर्ता, सर्वेषां शरीरोत्पत्तौ कारणभूत इत्यर्थः // 362 // - "दीधितिमान्" 363 इति / दीधीते-दीप्यते अस्या इति दीधिति:• कान्तिः, सा विद्यते यस्य स तथा / दीधितय:-किरणाः, तेषां मा-लक्ष्मी:, तामानयति-प्राणयतीति वा // 363 // .. "दीपः" 364 इति / दीप्यते लोकत्रये इति दीपः, 82