________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "धर्मरतः" 343 इति / धर्मे-स्वाचारे, रत:-तत्पर इत्यर्थः / पाठोऽयं सार्वत्रिकः // 34 // "धरणीधरः" 344 इति / दिग्गज-कुलाचलादिरूपेण धरणीं धारयतीति स तथा // 344 // "धृतातपत्रप्रतिमः" 345 इति / धृतमातपत्रं यया एवंविधा प्रतिमामूर्तिर्यस्य स तया, राजचिह्नोपेतत्वात् / धृतातपत्रेण पुरुषेण प्रतिमः-सदृशः सर्वदा तज्जनितसौन्दर्यभागित्यर्थः / / 345 / / / "धृतिकरः" 346 इति / धृतिः-धारणम्, अर्थाज्जगत: तत् करोतीति स तथा // 346 / / "धृतिमान्" 347 इति / धृति:-धैर्य सन्तोषो वा, तौ विद्येते यस्य स तथा। 'धृतिर्योगान्तरे धैर्य धारणा-ऽध्वर-तुष्टिषु // ' इति विश्वः // 347 // . "दिवा'' 348 इति / दिवा इत्यव्ययं दिनवाचि, तत्कर्तृत्वाद् भगवानपि तथा॥३४८॥ "द्वादशात्मा" 349 इति / द्वादश आत्मान:-रूपाणि यस्य सः / 'द्वादश आदित्याः // ' इति श्रुतेः / / 349 / / "द्वापरः" 350 इति / द्वौ अपरौ यस्मादिति द्वापरो युगः, तज्जनकत्वात् तद्वयपदेशः / अभक्तानां स्वविषयकसन्देहाधायक इति वा / 'अभक्तानां च भक्तानां सन्देहोऽज्ञानमेव च / / ' इति पुराणेषु दर्शनात् / ‘सन्देहो द्वापरो चाथ // ' इत्यमरः // 350 // "दिवापुष्टः" 351 इति / दिवा-दिवसे पुष्टो दिवापुष्टः, स्फुरत्कान्तिः / भगवत: सर्वदा परिपूर्णत्वेऽपि लोकैर्दिवसे तथा प्रतीयमानत्वात् / / 351|| "दिवापति:" 352 इति / दिवा-दिवसस्य पति:-स्वामी,.दिनाधीशत्वात् // 352 //