________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् तेष्वधर्ममुत्पाद्य तानाशयतीत्यर्थः / / 331 // "धर्माऽधर्मवरप्रदः" 332 इति / गुण-गुणिनोरभेदोपचाराद् अत्र धार्मिकाऽ-धार्मिकयोः स्वानुरूपफलजनकः // 332 / / "धर्मदः" 333 इति / धर्म-यागादिजन्यमपूर्वं तद् ददाति-फलेन योजयति स तथा / / 333 // "धर्मध्वजः" 334 इति / धर्म:-तमोविनाशित्वलक्षणः, स एव ध्वज:चिहं ज्ञापकं यस्य स तथा। धर्म-उदयाऽस्तमनलक्षणं ध्वजति-गच्छतीति वा। 'ध्वजश्चिहे पताकायां, ध्वजः शौण्डिक-शेफयोः // ' इति विश्वः // 334 // "धर्मवृक्षः" 335 इति / वृश्यते-छिद्यत इति वृक्षः / धर्मेषुसदनुष्ठानलक्षणेषु वृक्ष इंव वृक्षः, तत्तत्कार्यप्रतिबन्धकीभूतप्रभूतप्रत्यूहातपनिवारकत्वात् // 335 // .. "धर्मवृतः" 336 इति / धर्मे:-धर्मप्रधानैर्देवैर्वृत:-व्याप्तः // 336 / / "धर्मवत्सलः" 337 इति / धर्मा:-धार्मिकाः, तेषु वत्सलः / धर्म एव वत्सः धर्मवत्सः, तं लातीति वा // 337 // . 'धर्मकेतुः' 338 इति / धर्मस्य केतुः-संस्थापकः / 'केतुः संस्थापके चिहे / / ' इति मेदिनिः / / 338 // . "धर्मकर्ता" 339 इति / लोकशिक्षायै स्वयमेव धर्मानुष्ठातेत्यर्थः // 339 / / “धर्मनित्यः" 340 इति / धर्मो नित्यो यस्मात् स तथा; यनित्यतया धर्मोऽपि नित्यो भवतीत्यर्थः // 340 // "धर्मराजः" 341 इति / धर्मेण राजत इति धर्मराजः, जमजनकत्वाद् वा। 'आतमा वै जायते पुत्रः / / ' इति श्रुतेः / / 341 // "धर्मरत्नः" 342 इति / धर्मकवच इत्यर्थः / 'रत्नं मणिविशेषे स्यात् क्लीबं वर्मणि चोत्तमे // ' इति मेदिनिः // 342 // 80