________________ . श्रीसूर्यसहस्रनामसहत्रयम् . श्रीसूया .. "धनदः" 322 इति / धनं ददातीति सः / वैराग्यवासितान्त:स्वान्तानां धर्म द्यति-खण्डयतीति वा, वैराग्योत्पादकत्वे धनाशाविच्छेदकारित्वात् / 'यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् / / ' इति भगवदुक्तेः / / 322 // "धन्वन्तरिः" 323 इति / बाह्याऽभ्यन्तरभेदभिन्नामयनिर्वर्तकत्वाद् धन्वन्तरिव धन्वन्तरिः / 'आरोग्यं भास्करादिच्छेत् // ' इत्युक्तेः // 323 // . "धनञ्जयः" 324 इति / धनञ्जय:-शरीरस्थो वायुः, तत्पोषकत्वाद् / 'धनञ्जयोऽर्जुने वह्नि-नागभिद्-देहमारुते // ' इति मेदिनिकारः // 324 // "धन्यः" 325 इति / धनं लब्धा धन्यः, कृतकृत्यत्वात् // 325 / / "धनुर्धरः" 326 इति / धनु:-काण्डं धरतीति सः, तन्मन्त्रोपदेशकत्वात्। 'रामो भूत्वा धारयामास चापम् // ' इत्युक्तेर्वा // 326 / / "धनुष्मान्" 327 इति / धनु:क्रिया विद्यते यस्मिन् स तथा। 'धनु: पिपीलेना न स्त्री राशिभेदे शरासने। क्लीबं वितस्तौ हस्ते च दयायां चन्दनेऽपि च // ' . . इति मेदिनिः / / 327 // "धराधरः" 328 इति / धरां-पृथ्वीं धरतीति सः, वृष्टिकारित्वेन परम्परया तद्धारकत्वात् / धर:-उदयाचलः, स एव अधर:-आधारो यस्येति वा / 'विन्द्यादगारमागारमपगामापगामपि।आराममारमं चापि तयाऽधरमाधारवत् / / ' इति द्विरूपकोशः / / 328|| "ध्रुवः" 329 इति / ध्रुवतीति ध्रुवः, अप्रच्युता-ऽनुत्पन्नस्थिरैकस्वभावत्वात् / / 329 / / "धर्मः" 330 इति / धरति-स्थापयति सुगताविति धर्मः // 330 // . "धर्माऽधर्मप्रवर्तकः" 331 इति / धर्मश्चाधर्मश्च तौ धर्माधर्मों, तयोः प्रवर्तकस्तदुदयादेव तत्प्रवृत्तेः / अधर्मप्रवृत्तिं विना दैत्यानां नाशासम्भवात् / 79