________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्यम् "हर्यश्वः" 302 इति / हरयः-पिङ्गलाः, अश्वाः यस्य स तथा / / 302|| "हरी" 303 इति / हरे:-विष्णोः ई-लक्ष्मीर्यस्मात् सः / पापान् हरतीत्येवंशीलो हरी // 303 // "हिरण्यगर्भः"३०४ इति / हिरण्यमयमण्डं यद्वीर्यसम्भूतं तदस्य गर्भे // 304 // "हिरण्यरेताः" 305 इति / हिरण्यरेत:-अग्निः, तत्कारणत्वात् तथा / 'हिरण्यरेतसं वहिं, विद्वांसः सम्प्रचक्षते। . सोऽस्मात् सञ्जात इत्येनं तन्नाम्नैव बुधाः जगुः // ' इति पुराणोक्तेः // . हिरण्य:-दैत्यः, तत्र रेत:-वीर्यं यस्य सः // 305 / / . "हरिताश्वः" 306 इति / हरिता-हरिद्वर्णा अश्वा यस्य सः / 'हरित्सवर्णा मिहिरस्य वाजिनः // ' इत्युक्तेः / हरिता:-पक्षिविशेषाः, तान् आ-समन्तात् श्वसयति-जाड्यविध्वंसकत्वेन प्राणान् धारयतीति वा, डप्रत्यये रूपम् // 306 // "हुतः" 307 इति / हूयते,' इति हुत: / ज्योतिष्टोमादिसम्बन्धिनस्तद्धोमोद्देश्य इत्यर्थः // 307 // "हुताहुति:" 308 इति / हुता आहुतयो यस्मै इति सः, स्वर्गसाधनत्वात् // 308 // // इत्येकोनविंशतिर्हकारादीनि नामानि / / "द्यौः" 309 इति / तद्गतिप्रदातृत्वात् / द्यौः-आकाशं वा सर्वदा तत्सम्बन्धत्वात् / / 309 // "दु:स्वप्नाशुभनाशनः" 310 इति / निद्रादोषदुष्टान्त:करणजन्यं ज्ञानं स्वप्नः। दुः-दुष्टः स्वप्नः दुःस्वप्नः, तज्जनितं यदशुभं तस्य नाशन:-विनाशकः, सूर्यदर्शनेन तन्नाशात् / दुःस्वप्नं वाऽशुभं च ते नाशयतीति वा / / 310 // "धाता" 311 इति / दधाति सर्वलोकमिति धाता, सर्वेषां प्राणिनामाधारभूत इत्यर्थः / / 311 / / 77