________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् स्याज्ज्योतिषि स्त्रियाम् // ' इति मेदिनिः / अन्यमहसां व्रीडाजनक इति वा // 295 // "हिमदः" 296 इति / हिम-शैत्यं द्यतीति हिमदः / / 296 / / "हंसः" 297 इति / हन्ति शत्रून् इति हंसः, सर्वशरीरे गच्छतीति वा // 297 / / "हरः" 298 इति / हरति प्रलयकाले जगदिति हरः / / 298 / / "हरिः" 299 इति / स्मृतिमात्रेण पुंसां पापं हरतीति हरिः / / 299 / / "हरिदश्वः" 300 इति / हरित:-छन्दांसि अश्वा यस्य सः / 'हयरूपधरैर्भूप ! छन्दोभिः किल सप्तभिः / उह्यते भगवान् सूर्यः सर्वलोकप्रदीपनः / ' इति पुराणोक्तेः // हरिद्-नीलम् अर्थात् तम: अश्नातीति हरिदश, तादृशं वा लोचनं तेजोलक्षणं यस्येति वा / 'व: स्वान्ते वरुणे वाते वकार: स्वं प्रकीर्तितः / गत्यर्थे नयने श्रेष्ठे // ' इत्युक्तेः // 300 // // इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापक श्रीशत्रुञ्जयतीर्थकरमोचनाधनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानप्रमुदितपादसाहश्रीअकब्बरप्रदत्त'खुस्फहमा पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां चातुश्चत्वारिंशदधिक-श्रीसूर्यसहस्रनामटीकायां तृतीयशतविवरणं समाप्तम् / / "हरिप्रियः" 301 इति / हरय:-अश्वाः, त एव प्रिया: रथवोढारो यस्य स: / हरय:-अंशवः, अर्थात् शीतार्तानां प्रिया यस्येति वा / हरि:-विष्णुः प्रिंयो यस्येति वा। 'यमाऽनिलेन्द्रचन्द्रार्कविष्णुसिंहांशु वाजिषु / शुकाऽहिकपिभेकेषु हरि र्श कपिले त्रिषु / / ' इत्यमरः / / 'प्रिय: पुंसि प्रीतिपात्रे वाहके भर्तृवेशयोः // ' इति धरणिः // 301 // 76