________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् 'सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने। त्रिषु चैव न कर्तव्यो दाने चाऽध्ययने तपे॥' इत्यकारान्तश्रवणात् / 'नर-नारायणरूपेण बदरिकश्रमे तपस्तप्तम् // ' इति पुराणोक्तेः // 28 // “सत्त्वः" 285 इति / सत्त्वगुणप्रधानत्वात् सत्त्वः; सर्वप्राणिनां सत्त्वप्रदातृत्वाद् वा // 285 // "स्तोत्रम्" 286 इति / स्तोत्रं-गुणसङ्कीर्तनात्मकं तवेति पुराणोक्तेः / / 286 // “सत्यवान्' 287 इति / सत्यं-नित्यज्ञानम्, तद् विद्यते यस्मिन् स तथा // 287|| “सत्यः" 288 इति / सत् साधुत्वात् सत्यः / सत्यमिति पाठे सर्वेषां विनाशित्वेनायमेव नित्यतया प्रतिभासत इत्यर्थः / / 288 // “सत्यसन्धिः" 289 इति / सत्यः सन्धिः-सचटनं यस्य स तथा, धर्माधर्मघटकत्वात् / / 289 // . // इत्येकसप्तत्यधिकशतं सादिनाम्नाम् // "हुव:" 290 इति / हुव:-यज्ञस्वरूपः / 'हुव: आज्ञाध्वराह्वाने // ' इति धरण्युक्तेः / / 290 // “होमः" 291 इति / हूयत इति होमः, यज्ञादिकार्याणां तदधीनत्वात् / / 291 // “होमान्तकरण:" 292 इति / होमस्यान्त:-परिसमाप्ति: फलप्राप्तिलक्षणा वा क्रियतेऽनेनेति सः॥२९२॥ "होता'' 293 इति / जुहोतीति होता, होतॄणां तत्सानिध्यस्यावश्यकत्वात् // 293 / / "हयग:" 294 इति / पदैकदेशे पदसमुदायोपचाराद् ह्रयैःअश्वमेधादिभिस्तुष्टिं गच्छतीति सः / / 294 / / "हेलि:" 295 इति / भक्तापराधसहिष्णुः / 'आग: सहिष्णौ सूर्ये च हेलि: