________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "स्थविरः" 276 इति / यौवनमतिक्रम्य तिष्ठतीति स्थविर:-वृद्ध इति यावत्, पुराणपुरुषत्वात् // 276 // "स्थितः" 277 इति / तिष्ठतीति स्थितः, कालत्रयेऽपि वर्तमान इत्यर्थः // 277|| “स्थेयः" 278 इति / स्थातुं योग्यः स्थेयः, सर्वत्रावस्थानयोग्य: अनन्तशक्तिमत्त्वात् / तिष्ठतीति स्था, अविनश्वरा; ई:-लक्ष्मी:; तां यापयतिप्रापयतीति वा / 'अः कृष्ण आ स्वयम्भूरिः काम ई श्रीरुरीश्वरः // ' इत्येकाक्षरः / स्थेय:-सर्वेषां साक्षीभूत इति वा / 'प्रतिभूर्लग्नकः साक्षी स्थेय आधिस्तु बन्धकः // ' इत्युक्तेः // 278 // . "स्थितिमान् 279 इति। स्थिति:-उदया-ऽस्तमनलक्षणा, सा विद्यते यस्य स तथा // 279|| "स्थितिहेतुः" 280 इति / स्थिति:-मर्यादा वर्णानां स्वाचारनिष्ठत्वम्, तत्र हेतु:-कारणम् / / 280 // .. "स्थिरात्मकः" 281 इति / स्थिर आत्मा-स्वभावो यस्य सः, अविचलमर्याद इत्यर्थः // 28 // "स्थितिस्थेयः" 282 इति / देवानाम् अन्तरिक्षावस्थानं स्थितिः, सर्वदा प्रकाशलक्षणा वा / तस्यां स्थेय:-योग्यः, स्थिति-स्थातृ-स्थेयस्वरूप: / अत्र मध्यपदलोपिसमासेन स्थातृपदलोप: ज्ञानज्ञातृज्ञेयवत् / / 282 // - "स्थितिप्रियः'' 283 इति। स्थिति:-स्वाचारनिष्ठता, सा प्रिया यस्येति सः / स्थिति:-जगतोऽवस्थानम्, तत् प्रियं यस्येति वा, विष्णुरूपेण प्रतिपालकत्वात् // 283 / / "सुतपः" 284 इति / सुष्टु तपो यस्य स सुतपः, अकारान्तोऽयम् / यदाह चाणक्यः -... 74 .