________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सृष्टिः' 266 इति / सर्जनं-सृष्टिः, तदुपादानकारणत्वाद् जन्यजनकयोरभेदोपचाराद् वा / / 266 // "स्रष्टा" 267 इति / ब्रह्मणस्तदंशत्वाद् अभेदोपचारः / कार्योत्पत्ती तांस्तानुपायान् सृजतीति वा // 267 / / "श्रेष्ठात्मा" 268 इति / श्रेष्ठः प्रेक्षावतामात्मा-स्वरूपं यस्य सः त्रिजगत्स्पृहणीयरूपत्वात् / श्रेष्ठ आत्मा-यनो यस्येति वा, सृष्टिविषयकनित्यप्रयत्नवत्त्वात् / 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म (म) वा / / ' इत्यमरः // 268|| . . "सृष्टिकृत्' 269 इति / सृष्टिं कृन्ततीति सृष्टिकृत्, प्रतिसर्गे सृष्टिसंहारकारित्वात् / सृष्टिं-जन्मपरम्परां तद्ध्येतृणां कृन्ततीति वा // 269 / / "सृष्टिकर्ता" 270 इति / सृष्टिः-संसारः, तं करोतीति सः, स्वमायया तत्तत्प्रवृत्तिजनकत्वात् / / 270 / / / “सुरथः" 271 इति / सुष्टु-अविनाशी रथो यस्य स तथा // 271 // “सित:" 272 इति / शुभ्रवर्णत्वात्, उदयाऽ-स्तमनयो रक्तत्वमुपाधि जन्यम् / / 272|| “स्थावरात्मकः" 273 इति / स्थावरा:-पृथिव्यादयः पदार्थाः, त एव आत्मानः-स्वरूपभेदा यस्येति सः / 'सर्वत्र स्थितिमद् ब्रह्म स्थावरादि चराचरः / / ' इति पुराणोक्तेः // 273 / / “स्थानम्" 274 इति / स्थीयत इति स्थानम्, सर्वेषामाधारभूत इत्यर्थः // 274 // "स्थूलग्" 275 इति / स्थूल:-महान्, दृग्-ज्ञानगम्यः, पश्चात् कर्मधारयः / 'ज्ञानगम्ये स्त्रियां नेत्रे दृगिन्द्रिय-समूहयोः // ' इति मेदिनिः / विष्णुरूपत्वे तु स्थूला-बाह्यार्थग्राहिणी दृग्-दृष्टिर्यस्येति वा // 275||