________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् सर्वे साक्षिणो यस्येति वा / / 254 // "सर्वशस्त्रभृतांवरः" 255 इति / सर्वेषां शस्त्रभृतां-शस्त्रोपजीविनां वरः पूज्यः, सूर्यप्रसादेन शस्त्राण्यमोघानि भवन्तीत्यर्थः // 255 // "सुरेशः" 256 इति / सुराणां-शोभनदातृणाम्, ईश:-स्वामी / / 256 / / "सर्गः" 257 इति / सृजतीति सर्गः-सृष्टिः, जन्यजनकयोरभेदात् // 257|| "सर्गादिकरः" 258 इति / सर्गस्यादिः-ब्रह्मा, तं करोतीति सः / सर्गादयः सर्ग-स्थिति-प्रलयाः, तान् करोतीति वा / / 258|| “सुरकार्यज्ञः" 259 इति / सुराणां कार्य:-यज्ञः, तं जानातीति सः / सुराणां कार्य-कृत्यं करणीयतया जानातीति वा / / 259 / / "स्वर्गद्वारः" 260 इति / स्वर्यते-सुखहेतुतया कथ्यते इति स्वर्गः / तस्य द्वारमिव द्वारम्, तत्पुरस्कारेण तदुपलब्धेः / स्वर्गस्य द्वारं-गमनोपायो यस्माद् वा, वर्णाश्रमाचारप्रवर्तकमन्वादेरप्युपदेशकत्वात् / / 260 // "स्वर्गप्रतर्दनः" 261 इति / पापिनां स्वर्ग-सुखविशेषं प्रतर्दयतिखण्डयतीति सः / 'तर्द हिंसायाम्' इत्यस्य रूपम् // 26 // "मग्वी' 262 इति / सर्वदा अविनश्वरा स्रग्-माला विद्यते यस्य स तथा // 262 // . .. "सुरमणिः" 263 इति / . सुराणां मध्ये मणिरिव मणि:, तदधिकतेजस्वितया सर्वोत्कृष्टत्वात् / मणि:-नायक इति वा, तन्निग्रहाऽनुग्रहकारित्वात् / / 263 / / “सुरनिभाकृति:" 264 इति / सुराणां निभाः-सुरप्रतिमा आकृतयो यस्मात् स तथा // 26 // “सुरश्रेष्ठः" 265 इति / सुराणां मध्ये श्रेष्ठः-पूज्य: पुराणपुरुषत्वात् / सुराः श्रेष्ठा यस्मादिति वा दैत्यसंहारकारित्वात् / / 265 // 72