________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् / तेषां जितं-जयो यस्माद् वा // 234 // “सवलोकप्रकाशक:" 235 इति / सर्वे च ते लोकाश्च सर्वलोकाः, तान् प्रकाशयतीति स तथा / / 235 // "सुरपति:" 236 इति / सुराणां-देवानां पति:-नायकः, तद्रक्षकत्वात् / शोभनानां राणाम्-अग्नीनां गार्हपत्यादीनां पति: यज्ञपुरुषत्वाद् वा / 'रोऽग्नौ तीक्ष्णे ध्वनौ कामे, रा: स्वर्णे जलदे धने / ' इत्येकाक्षरः // 236 / / “सर्वशत्रुनिवारण:" 237 इति / सर्वे च ते शत्रवश्व बाह्याभ्यन्तरभेदभिन्नाः, तेषां निवारण:-तदुत्पत्तौ प्रतिबन्धकीभूत इत्यर्थः // 237 // “सर्वतोमुखः" 238 इति / सर्वतो मुखं यस्य स तथा, दर्शनकारिणां नृणां सर्वतः सम्मुखीभूत इत्यर्थः / 'सर्वतोमुख'नामकयज्ञरूपत्वाद् वा // 238 // “सर्वः" 239 इति / चतुर्दशरज्ज्वात्मकलोकव्यापिस्वरूप इत्यर्थः / 'सर्वस्य सर्वदा ज्ञानात् सर्वमेनं प्रचक्षते / / ' इति भगवद्व्यासवचनात् / / 239 / / “सर्वात्मा" 240 इति / सर्वेषु वस्तुषु आत्मा-अधिष्ठानं यस्य स तथा / 'आत्मा-ऽधिष्ठान-मनसोः / / ' इत्यनेकार्थः // 240 // “सर्वस्वः" 241 इति / सर्वं-स्थावरजङ्गमात्मकं जगत् स्वम्-आत्मीयं यस्य स तथा / सर्वेषां स्व-धनं यस्मादिति वा // 241|| "सर्वस्वी" 242 इति / सर्वं च तत् स्वं च सर्वस्वम् / तद् विद्यते यस्य यस्मिन् वा, सकलद्रव्याधिष्ठातृत्वात् / सर्वविषयिकं स्व:-ज्ञानं यस्येति वा / 'स्व: स्यात् पुंस्यात्मनि ज्ञाने // ' इति मेदिनिः / 'स्वं ज्ञातावात्मधनयोरात्मीये च प्रचक्षते // ' इति विश्वः // 242 / / “सर्वद्योतः" 243 इति / सर्वत्र द्योत:-प्रकाशो यस्य स तथा // 243 / / “सर्वद्युतिकरः" 244 इति / सर्वेषां द्युतिं करोतीति सः, सर्वेषां शोभाजनक .' इत्यर्थः // 244 // ___70