________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् तदुच्छेदकत्वात् / 'चक्रे कर्षे पुमानक्षः' इति धरण्युक्तेः / / 222 // “सुरावृतः" 223 इति / सुरैरावृतः सुरावृतः / 'रथस्यैः सुरैः स्तावकैः परिवृतस्तिष्ठति / / ' इति पुराणप्रसिद्धेः // 223 / / / "सुरारिहा" 224 इति / सुराणामरय:-दैत्यास्तान् हन्तीति सः // 224 / / "सुरारिः" 225 इति / सुरा-अविद्या मादकत्वात्। तस्या अरि:-नाशकः। सुराः-प्रतिकूलवर्तिनो देवाः, तेषामरिः तदुच्छेदकत्वाद् वा / / 225 // "सर्वंसहः" 226 इति / सर्वं सहतीनि सर्वसहः, क्रोधाध्यवसायरहितः // 226 // "स्वर्भाणुः" 227 इति / स्व:-स्वर्गे भातीति स्वर्भानुः // 227|| "सर्वदः" 228 इति / सर्वं यथाभिलषितमर्थं ददातीति सः / सर्वान् नन्-पापान् द्यति-खण्डयतीति वा / / 228 / / / “सर्वदर्शी" 229 इति / सर्वं पुरो भवद्-भावि-भूरं वस्तु द्रष्टुं शीलमस्य सः 229 // "सर्वप्रियः' 230 इति / सर्वतोऽपि प्रिय: सर्वप्रियः, आत्मत्वात् स्वरभेदाभावात् / सर्वे प्रिया यस्येति वा / / 230 // “सर्ववेदप्रगीतात्मा" 231 इति / सर्वेषु वेदेषु प्रकृष्टतया गीत:तुतिविषयीकृत: आत्मा-स्वरूपं यस्य स तथा // 23 // "सर्ववेदालयः" 232 इति / सर्ववेदानामालयो यस्मिनिति सः / षाञ्चिन्मते कल्पान्ते तदुच्छेदसम्भवात् / / 232 // "सर्वरत्नमयः" 233 इति / सर्वाणि च तानि रत्नानि च सर्वरत्नानि, न्मय:-तद्रूप इत्यर्थः। 'यद् यद् विभूतिमत् सत्त्वं, तद् रत्नमभिधीयते / ' त्युक्तत्वात् // 233 // "सुरपूजितः" 234 इति / सुरैः पूजितः-पुष्पादिनाऽर्चित इत्यर्थः, कलसुराणां तत्सपर्याविधायकत्वात् / सुरान् पुनन्तीति सुर(वः, विष्णवादयः