________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सुमनाः" 195 इति / सुष्टु-कल्पनारहितं मनो यस्य स तथा / 'क्लीबे मनो ज्ञान-हृदोः // ' इति धरणिः // 195 / / "सुमनोहरः' 196 इति / सुष्ठु मनोहरः सुमनोहरः, सर्वेषां स्पृहणीय इत्यर्थः / सुमनस:-पुष्पाणि उपढौकनानि यस्येति वा / 'हर: पुंसि महादेव न द्वयोरुपढौकने / ' इत्यनेकार्थः // 196 / / "सुमङ्गलः" 197 इति / सुष्टु-सर्वदाऽवस्थायि मङ्गलं यस्य स तथा // 197|| "सुमति:' 197+1 इति / सुष्टु–स्व-परप्रकाशकारिणी मतिर्यस्य यस्माद् वा स तथा // 197+1 // "सुमित:" 198 इति / सुष्टु-यथार्थत्वेन मित:-ज्ञात: सुमितः / अव्यभिचारिप्रमाणैर्मितोऽवधारितो वा // 198 // "सुमितिञ्जयः" 199 इति / सुष्टु मिति:-मानम्, तं जयतीति स तथा, परिमाणातीत इत्यर्थः / 'समितिञ्जयः' इति पाठे समिति-सङ्ग्रामं जयतीत्यर्थः / 'समित्याजिसमिप्युधः / / ' इत्यमरः // 199 / / "सनातनः" 200 इति / सदा भवतीति सनातनः, विरळच्यादीनामप्यादिभूतत्वात् / / 200 // // इति पादसाहश्रीअकब्बरजल्लालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जय तीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकब्बरप्रदत्त'खुस्फहमा' - पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शोखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां द्वितीयशतविवरणं समाप्तम्॥ “संसारार्णवतारकः" 201 इति / संसार एवार्णवः-समुद्रस्तस्मात् तारंयतीति सः // 201 // 66